For quick revisions, Sanskrit Class 8 Notes and NCERT Class 8 Sanskrit Chapter 1 Hindi Translation Summary Explanation Notes संगच्छध्वं संवदध्वम् is a highly effective tool.
Sanskrit Class 8 Chapter 1 Hindi Translation संगच्छध्वं संवदध्वम् Summary
संगच्छध्वं संवदध्वम् Meaning in Hindi
Class 8 Sanskrit Chapter 1 Summary Notes संगच्छध्वं संवदध्वम्
यह पाठ सङ्गच्छध्वं संवदध्वम् वेद के संज्ञान सूक्त पर आधारित है। इसमें आचार्य छात्रों को एकता, सहयोग और सामंजस्य का संदेश देते हैं। इसमें बताया गया है कि मनुष्य को मिलजुल कर चलना चाहिए, एक स्वर से बोलना चाहिए और सामूहिक विचारधारा अपनानी चाहिए । परस्पर सहयोग से ही परिवार, समाज, राष्ट्र और विश्व का उत्थान संभव है। ऋग्वेद का यह मंत्र मानवता को सौहार्द, एकता, समानता और प्रगति की ओर प्रेरित करता है। इस प्रकार यह पाठ हमें सहकार्य, भाईचारे और सामूहिकता की भावना सिखाता है।
पाठस्य परिचय
1. छात्रः – नमस्ते आचार्य ! अस्माकं विद्यालयस्य क्रीडोत्सवे पादकन्दुक-क्रीडायां वयं विजयं प्राप्तवन्तः ।
अध्यापकः – वर्धापनानि, अभिनन्दनं भवताम्। अपि भवन्तः जानन्ति यत्-भवतां प्रतिद्वन्द्विनः कथं पराजिता: ?
छाञा – आम्, जानामि आचार्य! अस्माकं दलस्य क्रीडकेषु परस्परं सम्यक् सामजञ्जस्यम् आसीत्, किन्तु विपक्षि-दले तत् नासीत् ।
छात्राः – सत्यम् आचार्य! तस्य दलस्य क्रीडकेषु परस्परं मनोभेदः द्वेषभावः च आसीत् । ते अन्योन्यं सहयोगं न कृतवन्तः।
अध्यापकः – तर्हि वदन्तु विजयप्राप्त्यर्थं किं- किम् आवश्यकम् ?
छात्रः – मिलित्वा कार्यकरणम्, एकता, परस्परं सामञ्जस्यं च आवश्यकम्।
अध्यापकः – सत्यम् एव उक्तम् । एष एव सन्देशः वेदे ‘सङ्गच्छध्वं संवदध्वम्’ इत्येवं प्रदत्तः ।
छात्रः – आचार्य ! कस्मात् वेदात् गृहीतः एषं सन्देश : ? कः च अस्य अभिप्रायः?
अध्यापकः – ऋग्वेदे-‘संज्ञान सूक्तस्य’ एषः मन्त्रांशः । एतत् ‘सङ्घटन् सूक्तम्’ इत्यपि प्रख्यातम्। आगच्छन्तु, वयम् अस्य सूक्तस्य प्रसिद्धान् त्रीन् मन्त्रान् पठामः ।
शब्दार्थाः
- अस्माकं = हमारा,
- क्रीडोत्सवे = क्रीड़ा उत्सव में,
- वर्धापनानि = बधाई,
- सम्यक् = अच्छा,
- तर्हि = तो,
- मिलित्वा = मिलकर,
- प्रख्यातम् = प्रसिद्ध,
- त्रीन् मन्त्रान् = तीन मंत्र
- सङ्गच्छध्वम् = मिलकर चलो,
- संवदध्वम् = मिलकर बोलो।

पाठ का परिचय
अनुवाद
छात्रा – नमस्ते आचार्य ! हमारे विद्यालय के क्रीड़ा उत्सव में हमने ‘फुटबॉल’ टूर्नामेंट जीता है।
अध्यापक – बधाई हो, आपका अभिनंदन। क्या आप जानते हैं कि आपने अपने प्रतिद्वन्दी को कैसे हराया?
छात्र – हाँ, जानता हूँ आचार्य ! हमारी टीम के खिलाड़ियों में एक-दूसरे के साथ पूर्ण सामंजस्य था, लेकिन प्रतिद्वंदी टीम में ऐसा नहीं था ।
छात्रा – सत्य आचार्य! उनकी टीम के खिलाड़ियों में आपस में मतभेद और द्वेष (नफरत) था। वे एक-दूसरे के साथ सहयोग नहीं करते थे।
अध्यापक – तो बताओ जीतने के लिए क्या-क्या आवश्यक हैं?
छात्रा – मिलकर कार्य करना, एकता और परस्पर सामंजस्य आवश्यक है।
अध्यापक – सत्य ही कहा है। यही संदेश ‘मिलकर चलो, मिलकर बोलो’ वेद में दिया गया है।
छात्र – आचार्य! ये संदेश किस वेद से लिए गए हैं? और इनका क्या अभिप्राय (उद्देश्य) है ?
अध्यापक – ऋग्वेद में ‘संज्ञान सूक्त का’ यह मंत्र है। यह ‘संघटन – सूक्त’ के नाम से भी प्रसिद्ध है। आओ, हम इस सूक्त के प्रसिद्ध तीनों मंत्रों को पढ़ें।

Class 8 Sanskrit Chapter 1 Hindi Translation संगच्छध्वं संवदध्वम्
1. प्राचीन-भारतीयज्ञान – परम्परायां वेदः साक्षात् ब्रह्ममुखनिः सृता पवित्रतमा दैवी वाक् इति मन्यते । वेदस्य चत्वारः संहिताः सन्ति–ऋग्वेदः, यजुर्वेदः, सामवेद, अथर्ववेदः चेति । इमे वेदाः अद्य विश्वस्य प्राचीनतम – साहित्य – रूपेण विद्वद्भिः मन्यन्ते । भवन्तः सर्वे स्नात्वा, शुद्धवस्त्राणि परिधाय, पादत्राणं बहिः स्थापयित्वा, अस्यां प्रार्थनासभायां समुपस्थिताः सन्ति । अतः आगच्छन्तु, प्रणामाञ्जलिं कृत्वा, नेत्रे मिलयित्वा, एकाग्रचित्तेन, समवेतस्वरेण च वेदमन्त्राणाम् उच्चारणं कुर्मः-
शब्दार्थाः
सृता = निःसृत (उत्पन्न),
वाक् = वाणी,
चत्वारः = चार,
विद्वद्भिः = विद्वानों द्वारा,
परिधाय = पहनकर,
पादत्राणं = चप्पलों को,
बहिः = बाहर,
स्थापयित्वा = रखकर,
मिलयित्वा = बंद करके,
समवेतस्वरेण = एक स्वर से।
संदर्भ – प्रस्तुत गद्यांश हमारी पाठ्य-पुस्तक संस्कृत दीपकम् के ‘सङ्गच्छध्वं संवदध्वम्’ पाठ से अवतरित है।
अनुवाद – प्राचीन – भरतीय ज्ञान – परंपरा में ‘वेदों को ब्रह्मा के मुख से निःसृत (उत्पन्न) परम पवित्र ईश्वरीय वाणी’ माना जाता है। वेदों की चार संहिताएँ हैं— ऋग्वेद, यजुर्वेद, सामवेद और अथर्ववेद। विद्वानों द्वारा इन वेदों को आज विश्व का सबसे प्राचीन साहित्य माना जाता है। आप सभी स्नान करके, शुद्ध वस्त्रों को पहनकर, चप्पलों को बाहर रखकर, इस प्रार्थना सभा में उपस्थित हुए हैं, तो आइए, प्रणाम करके, अपनी आँखें बंद करके तथा एकाग्र मन से और एक स्वर में वैदिक मंत्रों का उच्चारण ( जाप) करें।
2. ओउम्
सङ्गच्छध्वं संवदध्वं सं वो मनांसि जानताम् ।
देवा भागं यथा पूर्वे सञ्जानाना उपासते।
शब्दार्थाः
मनांसि = मन को,
जानताम् = जानें,
देवा = देवता,
सञ्जानाना = एक विचार वाले होकर,
उपासते = उपासना (श्रद्धापूर्वक कर्त्तव्य निर्वहण)
संदर्भ – पूर्ववत्।
पदच्छेदः – संगच्छध्वम् संवदध्वम् सम् वः मनांसि जानताम् देवाः भागम् यथा पूर्वे संजानाना: उपासते ।
अन्वयः – (यूयम्) संगच्छध्वं संवदध्वं वः मनांसि संजानताम् । यथा– पूर्वे देवाः भागं संजानानाः उपासते।
भावार्थः – (वेदस्य ऋषिः ‘आङ्गिरसः’ परमेश्वरस्य संदेशेन मनुष्यान् उपदिशति) हे मानवा: ! यूयं सर्वे (संगच्छध्वं) स्वस्य परिवारे, गणे, समाजे, राष्ट्रे, विश्वे च मिलित्वा अग्ने गच्छत, संभूय अभ्युदयं साधयत । (संवदध्व) परस्परं सम्यक् विचारविनिमयं कुर्वन्तः एकस्वरेण वदत | (वः) युष्माकं (मनांसि) परस्परं मनोभावान् (संजानताम्) सम्यक् जानीत। परस्परं मनोभेदः मास्तु ।
(यथा पूर्वे) यथा सृष्टेः प्रारम्भकाले, (देवाः) ब्रह्मणा सृष्टेः अग्नि-वायु-आदित्यादयः ब्रह्माण्डीय – शक्तय: (भाग)
सृष्टि:- निर्माण – यज्ञस्य साफल्यार्थं स्वं स्वं कर्तव्यं स्वीकृत्य, (संजानानाः) परस्परम् उत्कृष्टः- समन्वय-पूर्वकं (उपासते) स्वं स्वं कर्म निरवहन् ।
तथैव यूयं मनुष्याः अपि स्वस्य कुटुम्बस्य, दलस्य, लोकस्य च प्रगतये नित्यं संभूय स्व-स्व – कर्तव्यस्य सुचारु निर्वाहं कुरुत । इत्थं यूयं सर्वे वैमनस्यं परित्यज्य ऐक्यभावेन जीवत, तथा सर्वे अभीष्टफलानि च प्राप्नुत ।
अनुवाद – आंगिरस ऋषि कहते हैं कि हे मानवों। तुम सभी साथ मिलकर चलो, एक साथ (समान) बोलो तथा तुम्हारे मन भी समान हों (जानें), जिस प्रकार पहले देवता एक विचार वाले होकर, श्रद्धापूर्वक अपने कर्त्तव्यों का निर्वहण करते हुए अपने – अपने भाग को प्राप्त करते थे।

3. समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम् ।
समानं मन्त्रमभिमन्त्रये वः समानेन वो हविषा जुहोमि।।
शब्दार्थाः
मन्त्रः = चिंतन,
समितिः = समान सिद्धी,
अभिमन्त्रये = अभिमंत्रित करके प्रचारित करता हूँ,
वः = तुम्हारे,
हविषा = यज्ञाहुति द्वारा,
जुहोमि = यज्ञ को साधता हूँ।
संदर्भ – पूर्ववत् ।
पदच्छेदः – समानः मन्त्रः समितिः समानी समानम् मनः सह चित्तम् एषाम् समानम् मन्त्रम् अभिमन्त्रये वः समानेन व: हविषा जुहोमि ।
अन्वयः – एषां मन्त्रः समानः, समितिः समानी, मनः समानं, चित्तं सह (अस्तु)। वः समानं मन्त्रम् अभिमन्त्रये वः समानेन हविषा जुहोमि।
भावार्थः – (एषां) एकस्मिन् कर्मणि सह-प्रवृत्तानाम् एषां (मन्त्रः) चिन्तनं (समानः) परस्परं सौहार्दपूर्ण भवतु, एषां च (समिति:) लक्ष्यसिद्धि: (समानी) समाना भवतु, (मनः) मन: च (समानं) सौमनस्यपूर्णम् अस्तु, तथा च (चित्त) बुद्धिजन्यं ज्ञानम् अपि (सह) एकीभूतम् अस्तु। गृहे, वर्गे, लोके च परस्परं द्वेषं विना सर्वे सुखेन सौहार्दपूर्णं जीवनं यापयेयुः ।
हे मनुजा:! (वः) युष्माकम् (समानं मन्त्रम्) अन्योन्य-मन्त्रणं, संघटित – संकल्पं च (अभिमन्त्रये) अहम् संस्करोमि – दिव्यभावेन योजयित्वा प्रकटयामि । तथा च (व:) संघटितानां युष्माकं (समानेन) सामूहिक्या (हविषा) प्रार्थनया (जुहोमि) अहं ज्ञानयज्ञं सम्पादयामि।
इत्थम्, ऋषय: महात्मनः च सर्वदा साम्मनस्यपूर्ण सङ्कल्पं मन्त्रणं च दिव्यभावेन योजयित्वा समाजे प्रचारयन्ति, तस्य साफल्यार्थं च परमेश्वरं प्रार्थयन्ते।
अनुवाद – ऋषि कहते हैं कि एक ही कर्म में लगे हुए सभी का मन (चिंतन) समान हो, समिति (सिद्धी) समान हो, मन के साथ हृदय भी समान हो। तुम्हारे मंत्रों को समान रूप से अभिमंत्रित (प्रचारित) करके समान भाव से यज्ञाहुति द्वारा यज्ञ को सिद्ध करता हूँ अर्थात् साधता हूँ ।
4. समानी वः आकूतिः समाना हृदयानि वः।
समानमस्तु वो मनो यथा वः सुसहासति।।
शब्दार्थाः
आकूतिः = संकल्प,
अस्तु = हों,
यथा = जैसे / जिस प्रकार,
सुसहासति = सुसंघटित हो ।
संदर्भ – पूर्ववत् ।
पदच्छेदः – समानी वः आकूतिः समाना हृदयानि वः समानम् अस्तु वः मनः यथा वः सु सह असति ।
अन्वयः – (हे मानवा:)। व: आकूतिः समानी अस्तु । वः हृदयानि समाना (सन्तु) । यथा वः सह सु अस्ति, वः मनः समानम् अस्तु ।
भावार्थ: – हे मानवा:! (व:) युष्माकं सङ्कल्पः (समानी) समान: अस्तु । (व: हृदयामि) युष्माकं हृदयानि (समाना) सामरस्यपूर्णानि सन्तु । (यथा) येन (व:) युष्माकं (सह) संघटनं (सु) शोभनम् उत्कृष्ट: च (असति) भवति, तथा (व: मनः) युष्माकं मनः (समानम्) सामञ्जस्ययुतम् एकरूपं च (अस्तु) अस्तु ।
अनेन एव परिवारे, गणे, समाजे, राष्ट्रे, विश्वे च सुखं, शान्ति:, मैत्रीभावः च विराजते । एतैः मन्त्रैः संघटितरूपेण सहजीवनस्य कृते प्रेरणा लभ्यते। एतेन स्वजीवने लोके च प्रसन्नता, सौमनस्यम्, उत्साहः, आयुः, आरोग्यं, विजय:, समृद्धि:, धर्म:, ज्ञानप्राप्तिः, आत्मतृप्तिः च भवति ।
अनुवाद – ऋषि कहते हैं कि हे मानवों! तुम्हारे संकल्प समान हों, तुम्हारे हृदय भी समान हों । तुम्हारा मन भी समान हों, जिससे तुम सभी सुसंघटित हों।
अत्र इदम् अवधेयम्
1. सामान्यतया गम्-धातुः परस्मैपदी अस्ति । यदा ‘सम्’ इति उपसर्गयुक्तः गम्-धातुः भवति तदा तस्य आत्मनेपदरूपाणि भवन्ति ।
यथा- गम् + ति = गच्छति ।
सम् + गच्छति = सङ्गच्छते।
2. गम्-धातोः लोट्-लकारस्य रूपाणि पश्यामः

लोट्-लकारः
आज्ञार्थे भवति ।
यथा – छात्राः ! यूयम् उत्तिष्ठत । यूयम् उपविशत | आमन्त्रणार्थे भवति। यथा भवन्तः आगच्छन्तु । सार्धं क्रीडामः । आशीर्वादार्थे भवति। यथा – आयुष्मान् भव । विजयी भव । शिवास्ते पन्थानः सन्तु ।
3. अस्मद्-युष्मद्-शब्दयोः द्वितीया – चतुर्थी – षष्ठी – विभक्तिषु वैकल्पिकरूपाणि भवन्ति ।
यथा- अस्मद् –
द्वितीया विभक्ति – शाधि माम् त्वां प्रपन्नम् । – शाधि मा त्वा प्रपन्नम्।
चतुर्थी विभक्ति – देहि मह्यं वरदे वरम्। – देहि मे वरदे वरम् ।
षष्ठी विभक्ति – त्वमेव सर्वं मम देवदेव । – त्वमेव सर्वं मे देवदेव ।
युष्मद् –
द्वितीया विभक्ति – अहं त्वा मोक्षयिष्यामि। अहं त्वां मोक्षयिष्यामि ।
चतुर्थी विभक्ति – नमः तुभ्यम् (नमस्तुभ्यम्) । नमः ते (नमस्ते) ।
षष्ठी विभक्ति – शिष्यः तव अहम् । शिष्यः ते अहम् ।