Practicing with Deepakam Class 8 Solutions and NCERT Class 8th Sanskrit Deepakam Chapter 11 Question Answer सन्निमित्ते वरं त्यागः (ख-भागः) improves a student’s confidence in the subject.
Sanskrit Class 8 Chapter 12 Question Answer सन्निमित्ते वरं त्यागः (ख-भागः)
Class 8 Sanskrit Chapter 12 NCERT Solutions सन्निमित्ते वरं त्यागः (ख-भागः)
कक्षा 8 संस्कृत पाठ 12 के प्रश्न उत्तर सन्निमित्ते वरं त्यागः (ख-भागः)
१. अधेलिखितेषु वाक्येषु रक्तवर्णीयानि स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
(निम्नलिखित वाक्यों में लाल रंग से लिखे मोटे शब्दों के आधार पर प्रश्न- निर्माण कीजिए ।)
(क) वीरवरो पत्नीं पुत्रं दुहितरञ्च प्राबोधयत्।
(ख) ततस्ते सर्वे सर्वमङ्गलायाः आयतनं गताः।
(ग) वीरवरः वर्तनस्य निस्तारं पुत्रोत्सर्गेण अकरोत् ।
(घ) राजा स्वप्रासादं प्राविशत् ।
(ङ) महीपतिः वीरवराय समग्रकर्णाटप्रदेशम् अयच्छत्।
उत्तराणि
(क) क: पत्नी पुत्रं दुहितरञ्च प्राबोधयत् ?
(ख) ततस्ते सर्वे कस्याः आयतनं गताः ?
(ग) वीरवरः वर्तनस्य निस्तारं केन अकरोत् ?
(घ) राजा कुत्र प्राविशत् ?
(ङ) महीपतिः कस्मै समग्रकर्णाटप्रदेशम् अयच्छत्?
२. अधोलिखितान् प्रश्नान् उत्तरत।
(निम्नलिखित प्रश्नों के उत्तर दीजिए ।)
(क) वीरवरः किम् अवर्णयत् ?
(ख) प्राज्ञः धनानि जीवितञ्च केभ्यः उत्सृजेत ?
(ग) केन सदृशः लोके न भूतो न भविष्यति ?
(घ) का अदृश्या अभवत् ?
(ङ) सपरिवारः वीरवरः कुत्र गतवान् ?
उत्तर:
(क) वीरवर: अखिलराजलक्ष्मी संवादम् अवर्णयत्।
(ख) प्राज्ञः धनानि जीवितञ्च परार्थे उत्सृजेत ।
(ग) वीरवरेण सदृश: लोके न भूतो न भविष्यति ।
(घ) देवी / रोदितपरा नारी अदृश्या अभवत्।
(ङ) सपरिवारः वीरवरः स्वगृहं गतवान्।
![]()
३. अधोलिखितेषु वाक्येषु रक्तवर्णीयपदानि केभ्यः प्रयुक्तानि इति उदाहरणानुगुणं लिखत।
(निम्नलिखित वाक्यों में लाल रंग के शब्दों का प्रयोग किसके लिए किया गया है, इसके उदाहरण लिखिए।)
उदाहरणम्- धन्यः अहम् स्वामिजीवितरक्षार्थं विनियुक्तः ।
(क) भगवति ! न मे प्रयोजनं राज्येन जीवितेन वा । शक्तिधराय ।
(ख) वत्स ! अनेन ते सत्त्वोत्कर्षेण भृत्यवात्सल्येन च परं प्रीतास्मि । ……………..
(ग) धन्याहं यस्या ईदृशो जनको भ्राता च । ……………..
(घ) तदेतत्परित्यक्तेन मम राज्येनापि किं प्रयोजनम् ! ……………..
(ङ) अयम् अपि सपरिवारो जीवतु । ……………..
उत्तर:
(क) नृपाय
(ख) नृपाय
(ग) वीरवत्यै
(घ) नृपाय
(ङ) वीरवराय
४. उदाहरणानुसारं अधोलिखितानि वाक्यानि अन्वयरूपेण लिखत ।
(उदाहरण के अनुसार निम्नलिखित वाक्यों को अन्वय रूप में लिखिए।)
यथा – कृतो मया गृहीतस्वामिवर्तनस्य निस्तारो स्वपुत्रोत्सर्गेण ।
गृहीतस्वामिवर्तनस्य निस्तारो मया स्वपुत्रोत्सर्गेण कृतः ।
(क) नेदानीं राज्यभङ्गस्ते भविष्यति ।
…………………………………….
(ख) तेन पातितं स्वशिरः स्वकरस्थःखड्गेन।
…………………………………….
(ग) तदा ममायुः शेषेणापि जीवतु राजपुत्रो वीरवरः सह पुत्रेण पत्न्य दुहित्रा च ।
…………………………………….
(घ) तत्क्षणादेव देवी गताऽदर्शनम् ।
…………………………………….
(ङ) महीपतिस्तस्मै प्रायच्छत् समग्रकर्णाटप्रदेशं राजपुत्राय वीरवराय ।
…………………………………….
(च) जायन्ते च म्रियन्ते च मादृशाः क्षुद्रजन्तवः ।
…………………………………….
उत्तर:
(क) इदानीं ते राज्यभङ्गः न भविष्यति।
(ख) स्वकरस्थ: खड्गेन तेन स्वशिरः पातितं।
(ग) ममायुः शेषेणापि तदा राजपुत्रो वीरवरः सह पुत्रेण पत्न्या दुहित्रा च जीवतु ।
(घ) तत्क्षणात् एव देवी अदर्शनं गता ।
(ङ) महीपतिः तस्मै राजपुत्राय वीरवराय समग्रकर्णाट प्रदेशं प्रायच्छत्।
(च) मादृशा: क्षुद्रजन्तवः जायन्ते च म्रियन्ते च ।
५. उदाहरणानुगुणम् अधोलिखितानां पदानां पदच्छेदं कुरुत।
(उदाहरणानु निम्नलिखित पदों का पदच्छेद कीजिए ।)
यथा-
यद्येवमस्मत्कुलोचितम् = यदि-एवम् – अस्मत्-कुलोचितम्
सत्त्वोत्कर्षेण = सत्त्व-उत्कर्षेण
(क) गृहीतस्वामिवर्तनस्य = ……………….
(ख) निस्तारोपायः = ……………….
(ग) गृह्यतामेष = ……………….
(घ) स्वपुत्रोत्सर्गेण = ……………….
(ङ) स्वकरस्थखड्गेन = ……………….
(च) तदेतत्परित्यक्तेन = ……………….
(छ) स्वशिरश्छेदनार्थमुत्क्षिप्तः = ……………….
(ज) मद्दर्शनाददृश्यताम् = ……………….
(झ) तत्क्षणादेव = ……………….
(ञ) लब्धजीवितः = ……………….
उत्तर:
(क) गृहीत-स्वामि-वर्तनस्य
(ख) निस्तार-उपायः
(ग) गृह्यताम् – एष
(ङ) स्व-करस्थ-खड्गेन
(घ) स्व-पुत्र – उत्सर्गेण
(च) तत्-एतत्-परित्यक्तेन
(छ) स्व-शिर:-छेदन-अर्थम्-उत्क्षिप्तः
(ज) मत्-दर्शनात् – अदृश्यताम्
(झ) तत्- क्षणात् – एक
(ञ) लब्ध- जीवितः
![]()
६. (क) उदाहरणानुगुणं पाठगतानि पदानि अधिकृत्य सन्धियुक्तपदैः रिक्तस्थानानि पूरयत ।
(उदाहरणानुसार, पाठ में दिए गए पदों के आधार पर संधि युक्त पदों से रिक्त स्थानों की पूर्ति कीजिए ।)
यथा-
स्व + आवासम् = स्वावासम्
तत् + श्रुत्वा = ……………
दुहितरम् + च = ……………
धन्यः + अहम् = ……………
जीवितम् + च + एव = ……………
विलम्बः + तात = ……………
कः + अधुना = ……………
न + आचरितव्यम् = ……………
धन्या + अहम् = ……………
निस्तारः + उपायः = ……………
वीरवरः + अवदत् = ……………
ततः + असौ = ……………
ततः + ते = ……………
(ख) अधोलिखितपदानां सन्धिच्छेदं कुरुत।
(निम्नलिखित पदों का संधि-विच्छेद कीजिए ।)

उत्तर:
(क) तच्छ्रुत्वा दुहितरञ्च धन्योऽहम् जीवितञ्चैव, विलम्बस्तात, कोऽधुना, नाचरितव्यम्, धन्याहम्, निस्तारोपायः वीरवरोऽवदत्, ततोऽसौ, ततस्ते।
(ख) शूद्रकः + अपि पुनः + भूपालेन महीपतिः + तस्मै, प्र + अर्यच्छत्, नृपतिः + अपि, सर्वेषाम् + अदृश्य, वार्ताः + अन्या, राज्यभङ्गः + ते, गतिः + गन्तव्या, इति + उक्त्वा, न + इदानीं, प्रीत + अस्मि ।
७. अधोलिखितानि कथनानि कथायाः घटनानुसारं लिखत ।
(कथा की घटना के अनुसार निम्नलिखित कथन लिखिए।)
(क) सर्वं दृष्ट्वा राजा शूद्रकः अपि सर्वस्वसमर्पणार्थं सिद्धः अभवत्।
(ख) पितुः वार्ता श्रुत्वा शक्तिधरः प्रसन्नतया स्वस्य समर्पणार्थं सिद्धः अभवत्।
(ग) प्रातः राजा वीरवरम् अपृच्छत् ‘ह्यः रात्रौ किम् अभवत्’ ?
(घ) वीरवरो गृहं गत्वा पत्नीं पुत्रं पुत्रीञ्च प्राबोधयत्, सर्वां च वार्ताम् अकथयत्।
(ङ) वीरवरेण उक्तम् – स्वामिन्! न कापि वार्ता । सा नारी अदृश्या अभवत्।
(च) भगवती प्रसन्ना अभवत्। भगवत्याः कृपया सर्वे जीवितवन्तः ।
(छ) वीरवरः परिवारेण सह सर्वस्वसमर्पणम् अकरोत् ।
उत्तर:
(क) सर्वं दृष्ट्वा राजा शूद्रकः अपि सर्वस्वसमर्पणार्थं सिद्धः अभवत्।
(ख) पितुः वार्ता श्रुत्वा शक्तिधरः प्रसन्नतया स्वस्य समर्पणार्थं सिद्धः अभवत्।
(ग) प्रातः राजा वीरवरम् अपृच्छत् ‘ह्यः रात्रौ किम् अभवत्?’
(घ) वीरवरो गृहं गत्वा पत्नीं पुत्रं पुत्रीञ्च प्राबोधयत्, सर्वां च वार्ताम् अकथयत्।
(ङ) वीरवरेण उक्तम् – स्वामिन्! न कापि वार्ता । सा नारी अदृश्या अभवत्।
(च) भगवती प्रसन्ना अभवत् । भगवत्याः कृपया सर्वे जीवितवन्तः ।
(छ) वीरवरः परिवारेण सह सर्वस्वसमर्पणम् अकरोत् ।
![]()
योग्यताविस्तारः
1. श्लोकानां पदच्छेदम् अन्वयं भावार्थं च पठत स्मरत च।
धनानि जीवितञ्चैव परार्थे प्राज्ञ उत्सृजेत् ।
सन्निमित्ते वरं त्यागो विनाशे नियते सति ।।1।।
पदच्छेदः – धनानि जीवितं च एव परार्थे प्राज्ञः उत्सृजेत् सन्निमित्ते वरं त्यागो विनाशे नियते सति ।
अन्वयः – प्राज्ञः धनानि जीवितं चैव परार्थे उत्सृजेत् । विनाशे नियते सति सन्निमित्ते त्यागो वरम् ।
भावार्थः – परोपराकार्थ बुद्धिमान् सम्पदां जीवनं च त्यक्तुं सिद्धः भवेत्। यतः शरीरस्य नाशः तु भवति एव । अतः तस्य सत्कार्यार्थं त्यागः श्रेष्ठः खलु ।
जायन्ते च म्रियन्ते च मादृशाः क्षुद्रजन्तवः ।
अनेन सदृशो लोके न भूतो न भविष्यति ।।2।।
पदच्छेदः – जायन्ते च म्रियन्ते च मादृशाः क्षुद्रजन्तवः अनेन सदृशः लोके न भूतः न भविष्यति।
अन्वयः – मादृशाः क्षुद्रजन्तवः जायन्ते च म्रियन्ते च । लोके अनेन सदृशः न भूतः न भविष्यति च ।
भावार्थ: – मत्सदृशाः अल्पाः जन्म मृत्युं च
प्राप्नुवन्ति । एतादृशः जनः तु लोके पूर्वं न जातः न अग्रे भविष्यति च ।
2. (क) सुभाषितानि पठत स्मरत च।
यथा चतुर्भिः कनकं परीक्ष्यते निघर्षणच्छेदन – ताप-ताडनैः ।
तथा चतुर्भिः पुरुषः परीक्ष्यते कुलेन शीलेन गुणेन कर्मणा ।।
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ?
यो हि स्वधर्मनिरतः स तेजस्वी भवेदिह ।
विना स्वधर्मान्न सुखं स्वधर्मो हि परं तपः ?
(ख) अकर्मक धातुलक्षणम्-
धातोरर्थान्तरे वृत्ते धात्वर्थेनोपसङ्ग्रहात्।
प्रसिद्धेरविविक्षातः धातोरकर्मिका क्रिया।।
परियोजनाकार्यम्
पाठस्य कथाधारेण सरलसंस्कृतेन एकं नाटकं रचयत तस्य मञ्चनं च कुरुत ।