Practicing with Deepakam Class 8 Solutions and NCERT Class 8th Sanskrit Deepakam Chapter 2 Question Answer अल्पानामपि वस्तूनां संहतिः कार्यसाधिका improves a student’s confidence in the subject.
Sanskrit Class 8 Chapter 2 Question Answer अल्पानामपि वस्तूनां संहतिः कार्यसाधिका
Class 8 Sanskrit Chapter 2 NCERT Solutions अल्पानामपि वस्तूनां संहतिः कार्यसाधिका
कक्षा 8 संस्कृत पाठ 2 के प्रश्न उत्तर अल्पानामपि वस्तूनां संहतिः कार्यसाधिका
१. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखत ।
(निम्नलिखित प्रश्नों के उत्तर एक पद में लिखिए ।)
(क) मित्राणि ग्रीष्मावकाशे कुत्र गच्छन्ति ?
(ख) सर्वत्र कः प्रसृतः ?
(ग) कः सर्वान् प्रेरयन् अवदत् ?
(घ) कः हितोपदेशस्य कथां श्रावयति ?
(ङ) कपोतराजस्य नाम किम् ?
(च) व्याधः कान् विकीर्य जालं प्रसारितवान् ?
(छ) विपत्काले विस्मयः कस्य लक्षणम् ?
(ज) चित्रग्रीवस्य मित्रं हिरण्यकः कुत्र निवसति ?
(झ) चित्रग्रीवः हिरण्यकं कथं सम्बोधयति ?
(ञ) पूर्वं केषां पाशान् छिनत्तु इति चित्रग्रीवः वदति ? उत्तराणि
उत्तर:
(क) उत्तराखण्डम्
(ख) अन्धकार:
(ग) नायक: सुधीर:
(घ) नायक
(ङ) चित्रग्रीव
(च) तण्डुलान्
(छ) कापुरुषाणाम्
(ज) बिले (चित्रवने)
(झ) मित्र
(ञ) मदाश्रितानाम्
२. पूर्णवाक्येन उत्तरं लिखत ।
(पूर्ण वाक्य में उत्तर लिखिए ।)
(क) यदा केदारक्षेत्रम् आरोहन्तः आसन् किम् अभवत्? ………………
(ख) सर्वे उच्चस्वरेण किं प्रार्थयन्त ? ………………
(ग) असम्भवं कार्यं कथं कर्तुं शक्यते इति नायकः उक्तवान् ? ………………
(घ) निर्जने वने तण्डुलकणान् दृष्ट्वा चित्रग्रीवः किं निरूपयति ? ………………
(ङ) किं नीतिवचनं प्रसिद्धम् ? ………………
(च) व्याघ्रात् रक्षां प्राप्तुं चित्रग्रीवः कम् आदेशं दत्तवान् ? ………………
(छ) हिरण्यकः किमर्थं तूष्णीं स्थितः ? ………………
(ज) पुलकित: हिरण्यकः चित्रग्रीवं कथं प्रशंसति ? ………………
(झ) कपोताः कथं आत्मरक्षणं कृतवन्तः ? ………………
(ञ) नायकस्य प्रेरकवचनैः सर्वेऽपि किम् अकुर्वन् ? ………………
उत्तर:
(क) यदा ते श्रीकेदारक्षेत्रम् आरोहन्तः आसन् तदा लक्ष्यप्राप्तेः पूर्वं वेगेन वृष्टिः आरब्धा।
(ख) ‘हे भगवन् ! रक्ष अस्मान् रक्ष’ इति।
(ग) वयम् आत्मविश्वासबलेन असम्भवं कार्यं कर्तुं शक्नुमः ।
(घ) कुतोऽत्र निर्जने वने तण्डुलकणानां सम्भवः तद् निरूप्यताम्।
(ङ) लघूनाम् अपि वस्तूनां संहतिः कार्यसाधिका भवत्ति इति नीतिवचनं लोकसिद्धम् ।
(च) अस्माभिः सर्वैः एकचित्तीभूय जालमादाय उड्डीयताम् ।
(छ) हिरण्यकः कपोतानाम् अवपातमयात् चकितस्तूष्णीं स्थितः ।
(ज) अनेन आश्रितवात्सल्येन त्वं त्रैलोक्यस्यापि स्वामित्वं प्राप्तुं योग्योऽसि।
(झ) कपोता: बुद्धिबलेन संघटनसामर्थ्येन च आत्मसंरक्षणं कृतवन्तः।
(ञ) नायकस्य प्रेरकवचनैः उत्साहिताः सर्वेऽपि भयं शोकं सन्देहं च विहाय सेतुनिर्माणकार्ये सङ्लग्नाः जाताः।
![]()
३. अधोलिखितानि वाक्यानि पठित्वा ल्यप् प्रत्ययान्तेषु परिवर्तयत ।
(निम्नलिखित वाक्यों को पढ़िए और ल्यप् प्रत्ययों से परिवर्तित कीजिए।)
(क) छात्रः कक्षां प्रविशति । संस्कृतं पठति ।
छात्रः कक्षां प्रविश्य संस्कृतं पठति ।
(ख) भक्तः मन्दिरम् आगच्छति । पूजां करोति । ……………………
(ग) माता भोजनं निर्माति । पुत्राय ददाति । ……………………
(घ) सुरेशः प्रातः उत्तिष्ठति। देवं नमति। ……………………
(ङ) रमा पुस्तकं स्वीकरोति । विद्यालयं गच्छति। ……………………
(च) अहं गृहम् आगच्छामि । भोजनं करोमि । ……………………
(छ) तण्डुलकणान् विकिरति । जालं विस्तारयति । ……………………
(ज) व्याधः तण्डुलकणान् अवलोकते । भूमौ अवतरति । ……………………
उत्तर:
(ख) भक्तः मन्दिरम् आगम्य पूजां करोति ।
(ग) माता भोजनं निर्माय पुत्राय ददाति ।
(घ) सुरेशः प्रातः उत्थाय देव नमति ।
(ङ) रमा पुस्तकं स्वीकुर्वत्य विद्यालयं गच्छति ।
(च) अहं गृहम् आगम्य भोजनं करोमि ।
(छ) तण्डुलकणान् विकीर्य जालं विस्तारयति ।
(ज) व्याधः तण्डुलकणान् अवलोक्य भूमौ अवतरति ।
४. उदाहरणानुसारम् उपसर्गयोजनेन क्त्वा – स्थाने ल्यप्-प्रत्ययस्य प्रयोगं कृत्वा पदानि परिवर्तयत ।
(उदाहरण के अनुसार उपसर्ग जोड़कर क्त्वा के स्थान पर ल्यप् प्रत्यय का प्रयोग करके पदों को परिवर्तित कीजिए ।)
सम्, आ, उप, उत्, वि, प्र
(क) छात्रः गृहं गत्वा भोजनं करोति ।
छात्र: गृहम् आगत्य (आ + गम् + ल्यप्) भोजनं करोति ।
(ख) माता वस्त्राणि क्षालयित्वा पचति । ………………….
(ग) शिक्षकः श्लोकं लिखित्वा पाठयति । ………………….
(घ) रमा स्थित्वा गीतं गायति । ………………….
(ङ) शिष्यः सर्वदा गुरुं नत्वा पठति । ………………….
(च) लेखकः आलोचनं कृत्वा लिखति । ………………….
उत्तर:
(ख) माता वस्त्राणि: प्रक्षालयित्वा पचति ।
(ग) शिक्षकः श्लोकं उल्लिखत्वा पाठयति ।
(घ) रमा स्थित्वा सङ्गीतं गायति ।
(ङ) शिष्यः सर्वदा गुरुं विनत्वा पठति ।
(च) लेखकः आलोचनं उपकृत्वा लिखति।
५. पाठे प्रयुक्तेन उपयुक्तपदेन रिक्तस्थानं पूरयत ।
(पाठ में प्रयुक्त उपयुक्त पदों से रिक्त स्थानों को पूरा कीजिए ।)
(क) सर्वै: एकचित्तीभूय …………. उड्डीयताम् ।
(ख) जालापहारकान् तान् ………… पश्चाद् अधावत्।
(ग) अस्माकं मित्रं ………….. नाम मूषकराजः गण्डकीतीरे चित्रवने निवसति ।
(घ) हिरण्यकः कपोतानाम् ………… ‘चकितस्तूष्णीं स्थितः ।
(ङ) यतोहि विपत्काले ……… एव कापुरुषलक्षणम्।
उत्तर:
(क) जालमादाय
(ख) अवलोक्य
(ग) हिरण्यको
(घ) अवपातभयात्
(ङ) विस्मयः
![]()
६. पाठे प्रयुक्तेन ल्यप्प्रत्ययान्तपदेन सह उपयुक्तं पदं योजयत।
(पाठ में प्रयुक्त ल्यप् प्रत्यय के साथ उपयुक्त पद को जोड़िए ।)

उत्तर:
(क) (vi) तण्डुलकणान्
(ख) (v) भूमौ
(ग) (i) जालम्
(घ) (ii) जालापहारकान्
(ङ) (iii) उड्डीयताम्
(च) (iv) तद्वचनम्
(vi) तण्डुलकणान्
७. समासयुक्तपदेन रिक्तस्थानं पूरयत ।
(समासयुक्त पदों से रिक्तस्थानों को पूरा कीजिए ।)

उत्तर:
(ख) तण्डुलकणा:-तण्डुलकणान्
(ग) जालापहारका-जालापहारकान्
(घ) अवपातभयम्-अवपातभयात्
(ङ) कापुरुष लक्षणम् – कापुरुषाणालक्षणम्
८. सार्थकपदं ज्ञात्वा सन्धिविच्छेदं कुरुत ।
(सार्थक पदों को ज्ञात करके संधि-विच्छेद कीजिए ।)

उत्तर:
(ग) बालकः + अत्र
(घ) धैर्यम् + अथ + अभ्युदये
(ङ) भोजने + अपि + अप्रवर्तनम्
(च) नमः + ते
(छ) उपाय: + चिन्तनीयः
(ज) व्याधः + तत्र
(झ) हिरण्यक + अपि + आह
(ञ) मूषकराजो + गण्डकी + तीरे
(ट) अतः + त्वाम्
(ठ) कः + चित्
![]()
योग्यताविस्तारः
ग्रन्थपरिचयः
प्रस्तुतः पाठः हितोपदेशग्रन्थस्य मित्रलाभप्रकरणात् स्वीकृतः । अस्य ग्रन्थस्य लेखकः पण्डितः नारायणशर्मा अस्ति । अस्मिन् ग्रन्थे मूल्ययुक्तानां, नीतियुक्तानां च वचनानां, सुभाषितानां, कथानां च सङ्ग्रहः अस्ति। अतः अयं ग्रन्थः संस्कृतसाहित्ये अत्यन्तं समाद्रियते । अस्मिन् ग्रन्थे चत्वारि प्रकरणानि सन्ति –
- मित्रलाभः
- सुहृद्भेदः
- विग्रह:
- सन्धिः इति ।
अस्य अध्ययनेन छात्रः नीतिविद्यायां संस्कृतभाषायां च निपुणो भवति ।
अल्पानामपि वस्तूनां संहतिः कार्यसाधिका ।
तृणैर्गुणत्वमापन्नैर्बध्यन्ते मत्तदन्तिनः ॥ (हितोपदेशः 1.36)
पदच्छेदः – अल्पानाम् अपि वस्तूनां संहतिः कार्य – साधिका । तृणैः गुणत्वम् आपन्नैः बध्यन्ते मत्त – दन्तिनः ।
अन्वयः – अल्पानाम् अपि वस्तूनां संहतिः कार्य – साधिका । गुणत्वम् आपन्नैः तृणैः मत्त-दन्तिनः बध्यन्ते ।
भावार्थः – स्वल्पानां, निर्बलानामपि वस्तूनां संहतिः अर्थात् सङ्घः, समुदायः लक्ष्यसिद्धौ सहायिका भवति । यथा-घाससमूहेन निर्मितरज्जुद्वारा गजेन्द्रा अपि बद्धाः भवन्ति ।
विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः ।
यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम् । (हितोपदेशः 1.32)
पदच्छेदः – विपदि धैर्यम् अथ अभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः। यशसि च अभिरुचिः व्यसनं श्रुतौ प्रकृति-सिद्धम् इदम् हि महात्मनाम्।
अन्वयः – अथ विपदि धैर्यम्, अभ्युदये क्षमा, सदसि वाक्- पटुता, युधि विक्रमः, यशसि अभिरुचिः, श्रुतौ व्यसनं च इदं हि महात्मनां प्रकृति-सिद्धं भवति ।
भावार्थः – महापुरुषाणाम् एतत् आचरणं स्वभावसिद्धमेव भवति। यत्किमपि भवेत् ते विपत्काले धैर्यमवलम्ब्य समस्यापरिहारविषये प्रयत्नं कुर्वन्ति। सम्पत्तौ उन्नतौ च ते सर्वान् उपकुर्वन्ति। सभायां ते कौशलेन भाषणं कुर्वन्ति । युद्धे ते पराक्रमं शौर्यं च दर्शयन्ति । यशोविषये ते अभिरुचिं प्रदर्शयन्ति । शास्त्रविषये च ते अनुरागं प्रकटयन्ति ।
परियोजनाकार्यम्
१. पाठात् अधोलिखितानां क्रियापदानां प्रयोगकौशलं ज्ञात्वा तत्समानानि अन्यानि वाक्यानि रचयत ।
तिरस्कुर्वन्ति, क्रियुताम्म, निवसति, आह, छेत्स्यति, सम्भाषसे, अब्रवीत्, उपसर्पति, युज्यते,
यथा तिरस्कुर्वन्ति – दुर्जनाः सज्जनं तिरस्कुर्वन्ति ।
(क) ………………………………….
(ख) ………………………………….
(ग) ………………………………….
(घ) ………………………………….
(ङ) ………………………………….
(च) ………………………………….
(छ) ………………………………….
(ज) ………………………………….
२. अनया कथया वयं स्वजीवने कां शिक्षां स्वीकर्तुं शक्नुमः इति अधिकृत्य कक्षायां परिचर्चां कुर्वंतु।