Class 8 Sanskrit Chapter 3 Hindi Translation सुभाषितरसं पीत्वा जीवनं सफलं कुरु Summary

For quick revisions, Sanskrit Class 8 Notes and NCERT Class 8 Sanskrit Chapter 3 Hindi Translation Summary Explanation Notes सुभाषितरसं पीत्वा जीवनं सफलं कुरु is a highly effective tool.

Sanskrit Class 8 Chapter 3 Hindi Translation सुभाषितरसं पीत्वा जीवनं सफलं कुरु Summary

सुभाषितरसं पीत्वा जीवनं सफलं कुरु Meaning in Hindi

Class 8 Sanskrit Chapter 3 Summary Notes सुभाषितरसं पीत्वा जीवनं सफलं कुरु

प्रस्तुत पाठ में दादी और पुत्री के मध्य संवाद के माध्यम से ‘सुभाषितों’ के महत्त्व के बारे में बताया गया है कि सुभाषित (अच्छे वचन) पढ़ने से मानव अपना कल्याण कर सकता है। दादी ने पुत्री को बताया कि मानव को अपनी सुख और समृद्धि के लिए सुभाषितों को पढ़ने की आवश्यकता है। सुभाषित अपने कर्त्तव्य और अकर्त्तव्य के विषय में स्पष्टता से मार्ग दर्शन करते हैं।

प्रस्तुत पाठ में आठ मन्त्रांश हैं, जिनमें कहा गया है कि देवता भी भारतभूमि की वंदना करते हैं, योग्य व्यक्ति ही दूसरे के महत्त्व को समझ सकता है। परोपकार ही पहला धर्म है। मनुष्यों की परीक्षा भी सोने के समान की जानी चाहिए। मनुष्य आठ गुणों से समाज में सम्मान प्राप्त करता है। वृद्धों की सलाह से ही सभा सफल होती है, विद्या से अलंकृत होने पर भी दुर्जन को त्याग देना चाहिए । पुरुषार्थ के बिना भाग्य सिद्ध नहीं होता है।

Class 8 Sanskrit Chapter 3 Hindi Translation सुभाषितरसं पीत्वा जीवनं सफलं कुरु Summary 1

पाठस्य परिचय

पुत्री – पितामहि! एकां नूतनां कथां कथयतु ।
पितामहि – वत्से ! त्वं प्रतिदिनं तु कथां शृणो, अद्य नीतिश्लोकान् शृणु।
पुत्री – नीतिश्लोकाः …?
पितामहि – आम्! नीतिश्लोकाः । नीतिश्लोकाः नाम सुभाषितानि । पुत्री किं नाम सुभाषितानि ?
पितामहि – सुष्ठु भाषितानि इति सुभाषितानि अर्थात् शोभनानि वचनानि । तानि सर्वदा जनानां हिताय भवन्ति ।
पुत्री – सुभाषितपठनेन कः लाभः ?
पितामहि – सुभाषितपठनेन आदर्श मानवजीवन-निर्माणाय प्रेरणा प्राप्यते। मानवजीवनस्य सुखाय समृद्धये च सुभाषितानां पठनस्य आवश्यकता अस्ति । यः सुभाषितानि पठित्वा कार्यक्षेत्रे तस्य ज्ञानस्य प्रयोगं करोति सः बहून् लाभान् प्राप्नोति ।
पुत्री – अहो सुन्दरम्। यदि एवं तर्हि अहं नूनं सुभाषितानि पठिष्यामि ।
पितामहि – सुभाषितानि स्वकर्त्तव्यस्य अकर्त्तव्यस्य च विषये स्पष्टतया मार्गदर्शनं कुर्वन्ति । अतः सर्वे अवश्यं सुभाषितानि पठन्तु। तानि पठित्वा सर्वे जीवनस्य रहस्यम् अवगच्छन्तु, जीवनं सुखमयं च कुर्वन्तु ।

Class 8 Sanskrit Chapter 3 Hindi Translation सुभाषितरसं पीत्वा जीवनं सफलं कुरु Summary 2

शब्दार्थाः

  • पितामहि = दादी,
  • शृणु = सुनो,
  • सुभाषितानि = अच्छे वचन,
  • सुष्ठु = अच्छा,
  • हिताय = हित के लिए,
  • नूनं निश्चित, कुर्वन्ति = करते हैं।

पाठ का परिचय

अनुवाद
पुत्री – दादी ! एक नई कहानी सुनाओ ।
दादी – पुत्री ! तुम प्रतिदिन तो कहानी सुनती हो, आज नीतिश्लोक सुनो।
पुत्री- नीतिश्लोक ……?
दादी – हाँ, नीतिश्लोक ! नीतिश्लोक का नाम ‘सुभाषित’ है।
पुत्री – क्या नाम सुभाषित ?
दादी – अच्छे वचन ही सुभाषित हैं अर्थात् शोभनीय वचन ही सुभाषित हैं। वे सब हमेशा लोगों के हित के लिए ही होते हैं।
पुत्री – सुभाषित पढ़ने से क्या लाभ है?
दादी – सुभाषित पढ़ने से आदर्श मानव, जीवन निर्माण के लिए प्रेरणा प्राप्त करते हैं। मानव जीवन के सुख और समृद्धि के लिए सुभाषितों को पढ़ने की आवश्यकता है। जो सुभाषितों को पढ़कर कार्यक्षेत्र में उस ज्ञान का प्रयोग करता है। वह बहुत लाभ प्राप्त करता है।
पुत्री – अरे सुंदर ! यदि ऐसा है, तो मैं निश्चय ही सुभाषित पढूँगी।
दादी – सुभाषित अपने कर्त्तव्य और अकर्त्तव्य के विषय में स्पष्टता से मार्ग दर्शन करते हैं। अतः सभी को सुभाषित अवश्य पढ़ना चाहिए। इन्हें पढ़कर सभी जीवन के रहस्य को समझे और जीवन को सुखमय बनाएँ ।

Class 8 Sanskrit Chapter 3 Hindi Translation सुभाषितरसं पीत्वा जीवनं सफलं कुरु Summary 10

Class 8 Sanskrit Chapter 3 Hindi Translation सुभाषितरसं पीत्वा जीवनं सफलं कुरु

1. गायन्ति देवाः किल गीतकानि धन्यास्तु ते भारतभूमिभागे ।
स्वर्गापवर्गास्पदमार्गभूते भवन्ति भूयः पुरुषाः सुरत्वात्।।1।।

शब्दार्थाः
गायन्ति = गाते हैं,
किल = निश्चय से,
धन्याः = प्रशंसनीय,
अपवर्गः = मोक्ष,
भूयः = बार-बार,
सुरत्वात् = देवत्व से।
संदर्भ – प्रस्तुत गद्यांश हमारी पाठ्य-पुस्तक संस्कृत दीपकम् के ‘सुभाषितरस पीतवा जीवनं सफलं कुरु’ पाठ से उद्धृत है।
पदच्छेदः – गायन्ति देवाः किल गीतकानि धन्याः तु ते भारतभूमिभागे स्वर्गापवर्गास्पद-मार्गभूते भवन्ति भूयः पुरुषाः सुरत्वात्।
अन्वयः – भारतभूमिभागे (ये) भवन्ति ते धन्याः इति देवा: गीतकानि गायन्ति किल ।
स्वर्गापवर्गास्पद- मार्गभूते (भारतभूमिभागे) तु (देवा:) सुरत्वात् भूयः पुरुषा: (भवन्ति) ।
भावार्थः – ये मानवाः अस्यां भारतभूमौ जन्म प्राप्नुवन्ति ते धन्याः इति भारतभूमेः गुणगानं देवाः कुर्वन्ति । अतः वयं सर्वे भारतीयाः भाग्यशालिनः स्मः ।
धर्म-अर्थ-काम-मोक्षादिप्राप्तये मार्गभूते अस्मिन् भूखण्डे देवाः अपि देवत्वं विहाय मनुष्यरूपेण जन्मग्रहणार्थम् अभिलषन्ति ।
अनुवाद – देवता भारतभूमि की स्तुति करते हुए कहते हैं कि इस भारत भूमि पर जन्म लेने वाले मनुष्य धन्य हैं। अतः हम सभी भाग्यशाली भारतीय हैं। धर्म, अर्थ, काम, मोक्ष आदि की प्राप्ति का मार्ग बताने वाली इस भूमि पर देवता भी अपना देवत्व त्यागकर मनुष्य योनि में जन्म लेने की इच्छा रखते हैं।

Class 8 Sanskrit Chapter 3 Hindi Translation सुभाषितरसं पीत्वा जीवनं सफलं कुरु Summary 5

2. गुणी गुणं वेत्ति न वेत्ति निर्गुणः बली बलं वेत्ति न वेत्ति निर्बलः।
पिको वसन्तस्य गुणं न वायसः करी च सिंहस्य बलं न मूषकः ।। 2 ।।

शब्दार्थाः
वेत्ति = जानता है,
निर्गुणः = गुण रहित,
बली = बलशाली,
निर्बलः = बलहीन,
पिकः = कोयल,
वायसः = कौआ,
करी = हाथी |
संदर्भ – पूर्ववत् ।
पदच्छेदः – गुणी गुणं वेत्ति न वेत्ति निर्गुणः बली बलं वेत्ति न वेत्ति निर्बलः पिकः बसन्तस्य गुणं न वायसः करी च सिंहस्य बलं न मूषकः ।
अन्वयः – गुणी गुणं वेत्ति | निर्गुण: (गुणं) न वेत्ति । बली बलं वेत्ति, निर्बल: (बलं) न वेत्ति । पिकः वसन्तस्य गुणं (वेत्ति) वायसः (वसन्तस्य गुणं) न (वेत्ति) । करी च सिंहस्य बलं (वेत्ति) । मूषकः (सिंहस्य बलं) न वेत्ति ।
भावार्थः – गुणवान् जनः अन्येषां सद्गुणान् ज्ञातुं शक्नोति । परन्तु गुणहीनः जनः अपरेषां सुगुणान् अवगन्तुं समर्थः न भवति। बलवान् जनः यथा अन्येषां बलं ज्ञातुं शक्नोति तथा बलरहितः जनः अन्येषां बलं ज्ञातुं न शक्नोति । वसन्तकाले आगते पिक: वसन्तस्य गुणानुरूपं मधुरगानं करोति । परन्तु काकः मधुरं गातुं न शक्नोति । गजः पशुराजसिंहस्य बलं जानाति किन्तु मूषकः तस्य बलं ज्ञातुं न पारयति। अत: योग्य: एव महत्त्वं ज्ञातुं समर्थो भवति, न अयोग्यः।
अनुवाद – एक गुणी व्यक्ति दूसरों के अच्छे गुणों को पहचान सकता है, लेकिन गुणहीन व्यक्ति गुणों की पहचान नहीं कर सकते। बलवान व्यक्ति बल (शक्ति) को जानता है, लेकिन बलहीन (निर्बल) बल को नहीं जान पाता है। कोयल बसंत ऋतु के महत्त्व को जानती है, क्योंकि कोयल बसंत ऋतु में मधुर गान करती है, लेकिन कौआ बसंत के महत्त्व को नहीं पहचानता । हाथी, शेर के बल को जानता है, लेकिन चूहा उसके बल को नहीं समझ सकता। इसलिए केवल योग्य व्यक्ति ही महत्त्व को समझ पाता है, अयोग्य नहीं।

Class 8 Sanskrit Chapter 3 Hindi Translation सुभाषितरसं पीत्वा जीवनं सफलं कुरु Summary 6

3. भवन्ति नम्रास्तरवः फलोद्गमैः नवाम्बुभिर्दूरविलम्बिनो घनाः ।
अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम्।।3।।

शब्दार्थाः
नम्राः = झुके हुए,
तरवः = वृक्ष,
फलोद्गमैः = फलों के भार से,
अम्बुभिः = जल से भरे हुए,
दूरविलम्बिनः = दूर से नीचे झुके हुए,
घनाः = बादल,
अनुद्धताः = अभिमान से रहित,
सत्पुरुषाः = अच्छे लोग,
समृद्धिभिः = बहुत धन से ।
संदर्भ – पूर्ववत् ।
पदच्छेदः – भवन्ति नम्राः तरवः फलोद्गमैः नवाम्बुभिः दूरविलम्बिनः घनाः अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एव एषः परोपकारिणाम् ।
अन्वयः – तरवः फ़लोद्गमैः नम्राः भवन्ति । घनाः नवाम्बुभिः दूरविलम्बिनः (भवन्ति) । सत्पुरुषाः समृद्धिभिः अनुद्धताः (भवन्ति)। परोपकारिणाम् एष एव स्वभाव: – (भवति) । भावार्थ: समयानुसारं वृक्षेषु फलानि जायन्ते। फलभारेण ते वृक्षाः नम्राः भवन्ति। तथैव नवजलैः परिपूर्णाः मेघाः अवनता: भवन्ति, भूमिं प्रति आयान्ति वृष्टिं च कुर्वन्ति । अस्मिन् संसारे बहवः परोपकारिणः जनाः सन्ति। स्वसमृद्धिकाले ते औद्धत्यं न प्रकटयन्ति । ते सहृदया: विनम्राः च सन्तः सदैव परोपकाराय यत्नशीला: भवन्ति । ते परोपकारं व्रतरूपेण धारयन्ति । उक्तं च व्यासमहर्षिणा — परोपकारः पुण्याय पापाय परपीडनम् ।
अनुवाद – वृक्ष समय के अनुसार फल देते हैं। वे वृक्ष फलों के भार से झुके (लदे) हुए होते हैं, वे विनम्र हैं इसी प्रकार मीठे पानी से भरे बादल नीचे झुके हुए होते हैं, जमीन पर आते हैं और वर्षा करते हैं। इस संसार में बहुत-से परोपकारी (सज्जन) लोग हैं, जो अपनी समृद्धि के समय भी वे अहंकार नहीं दिखाते हैं। वे दयालु और विनम्र होते हैं, परोपकारियों का स्वभाव हमेशा ऐसा ही होता है अर्थात् वे हमेशा दूसरों की सहायता करने की कोशिश करते हैं। वे दान को एक व्रत मानते हैं और महर्षि व्यास ने कहा है कि दूसरों पर उपकार करना पुण्य के लिए और दूसरों पर अत्याचार करना पाप के लिए होता है।

Class 8 Sanskrit Chapter 3 Hindi Translation सुभाषितरसं पीत्वा जीवनं सफलं कुरु Summary 7

4. यथा चतुर्भिः कनकं परीक्ष्यते निघर्षणच्छेदनतापताडनैः।
तथा चतुर्भिः पुरुषः परीक्ष्यते कुलेन शीलेन गुणेन कर्मणा ।।4।।

शब्दार्थाः
कनकं = सोना,
परीक्ष्यते = उसकी परीक्षा की जाती है,
निघर्षणम् = घिसना,
छेदनम् = काटना,
ताडनैः = प्रहार के द्वारा,
कुलेन = कुल से,
शीलेन = स्वभाव से ।
संदर्भ – पूर्ववत्।
पदच्छेदः – यथा चतुर्भिः कनकं परीक्ष्यते निघर्षण- च्छेदन-ताप- ताडनै: तथा चतुर्भिः पुरुषः परीक्ष्यते कुलेन शीलेन गुणेन कर्मणा।
अन्वय – यथा निघर्षण-छेदन-ताप – ताडनैः चतुर्भिः (उपायैः) कनकं परीक्ष्यते। तथा कुलेन शीलेन गुणेन कर्मणा (च) चतुर्भिः पुरुषः परीक्ष्यते ।
भावार्थः – स्वर्णकारः सुवर्णस्य शुद्धताम् आकलयितुम् आदौ निकषप्रस्तरे निघर्षणं करोति, तदनन्तरं तस्य सुवर्णस्य कर्तनं करोति, ततः अग्निना दाहयति, अन्ते सुवर्णखण्डे प्रहारं करोति । एभिः चतुर्भिः प्रकारैः परीक्ष्य सुवर्णस्य पूर्णशुद्धतां ज्ञातुं शक्नोति । तथैव पुरुषः अपि चतुर्भिः उपायैः परीक्षणीयः यथा— कस्मिन् परिवारे अयं जनः जन्म अलभत? तस्य स्वभावः कीदृशः अस्ति ? सः कीदृशैः गुणैः युक्तः अस्ति ? पुनः सः केन कर्मणा सर्वत्र समादृतः भवति? एषु उपायेषु परीक्ष्य एव तस्य व्यक्तित्वं ज्ञातुं शक्यते।
अनुवाद – स्वर्णकार सोने की शुद्धता का आकलन प्रारंभ में पत्थर से घिसने से करता है, इसके बाद सोने को काटने से, तब अग्नि में जलाने से, अंत में स्वर्ण खंड पर प्रहार करने से करता है। इन चारों प्रकार से सोने की पूर्ण शुद्धता को जान सकते हैं। वैसे ही पुरुष भी चार उपायों से परीक्षणीय है; जैसे- किस परिवार में इस व्यक्ति ने जन्म लिया है? उसका स्वभाव कैसा है ? वह कैसे गुणों से युक्त है ? पुनः वह किस कर्म में सभी जगह लगा हुआ है? इन उपायों में ही उसका व्यक्तित्व जान सकते हैं।

5. अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च।
पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च ।। 5 ।।

शब्दार्थाः
दीपयन्ति = प्रकाशित करते हैं,
प्रज्ञा = विशिष्ट बुद्धि,
कौल्यं = अच्छे कुल में जन्म,
दमः = इंद्रियों का संयम,
श्रुतम = शास्त्रों का ज्ञान,
पराक्रमः = वीरता,
अबहुभाषिता = कम और सार्थक बोलना।
संदर्भ – पूर्ववत् ।
पदच्छेदः – अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च। पराक्रमः च अबहुभाषिता च दानं यथाशक्ति कृतज्ञता च।
अन्वयः – प्रज्ञा कौल्यं दमः श्रुतं पराक्रमः अबहुभाषिता च यथाशक्ति दानं कृतज्ञता च (इत्येते) अष्टौ गुणाः पुरुषं दीपयन्ति ।
भावार्थ: – अष्टभिः गुणैः युक्त: मानवः सर्वदा समाजे सम्मानं प्राप्नोति । विशेषज्ञानं, कुलीनता, संयमः, वेदादीनां शास्त्राणां ज्ञानं, पराक्रमः, अल्पभाषिता, सामर्थ्यानुसारं दानशीलता, कृतज्ञता च इति एते अष्टौ गुणाः सन्ति । मानव: उत्तमगुणान् आश्रित्य सम्मानितः भवति । अतः उक्तम्—गुणवान् पूज्यते नरः ।
अनुवाद – आठ गुणों वाला मनुष्य समाज में सदैव सम्मान पाता है। विशिष्ट ज्ञान, कुलीनता, संयम, वेदों और अन्य शास्त्रों का ज्ञान, पराक्रम,वाक्पटुता, यथाशक्ति दान और कृतज्ञता ये आठ गुण हैं। मनुष्य को उसके अच्छे गुणों के लिए सम्मानित किया जाता है। इसलिए ऐसा कहा जाता है कि गुणवान व्यक्ति की पूजा की जाती है।

6. न सा सभा यत्र न सन्ति वृद्धाः वृद्धा न ते ये न वदन्ति धर्मम् ।
धर्मः स नो यस्त्र न सत्यमस्ति सत्यं न तद्यच्छलमभ्युपैति ।।6।।

शब्दार्थाः
यत्र = जहाँ,
सन्ति = है,
वदन्ति = बोलते हैं,
छलम् = छलना (कपट),
अभ्युपैति = प्राप्त करता है।
संदर्भ – पूर्ववत्।
पदच्छेदः – न सा सभा यत्र न सन्ति वृद्धाः वृद्धाः न ते ये न वदन्ति धर्मं धर्मः सः नो यत्र न सत्यम् अस्ति सत्यं न तद् यद् छलम् अभ्युपैति।
अन्वयः – सा सभा न (अस्ति), यत्र वृद्धाः न सन्ति । ते वृद्धा: न (सन्ति), ये धर्मं न वदन्ति । सः धर्मः न उ (अस्ति), यत्र सत्यं न अस्ति। तत् सत्यं न (अस्ति), यत् छलम् अभ्युपैति ।
भावार्थः – अस्मिन् संसारे विविधाः सभाः भवन्ति । सभासु जनसमागमः भवति। बहुभाषणं प्रचलति । तेन साफल्यं न भवति । वस्तुतः सा एव सभा सफला भवति यत्र वयोवृद्धाः ज्ञानवृद्धाः च जनाः भवेयुः । पुनरपि ते ज्ञानवृद्धाः धर्मविषये वदेयुः । धर्मसम्बद्धायां चर्चायां सत्यम् एव वक्तव्यं यत्—सत्यं तथ्ययुक्तं भवेत् न तु छलनायुक्तम् इति ।
अनुवाद – इस संसार में अनेक सभाएँ होती हैं, सभा में बहुत लोगों का आना होता है। बहुत-सी बातें होती हैं, इनसे सफलता नहीं मिलती। एकमात्र सफल सभा वही होती है, जहाँ वयोवृद्ध और ज्ञानी लोग हों। जो ज्ञान में बड़े हुए हैं, उन्हें धर्म पर बोलना चाहिए, धर्म की चर्चा में सत्य बोलना चाहिए, वह सत्य तथ्यात्मक होना चाहिए, भ्रामक नहीं होना चाहिए ।

Class 8 Sanskrit Chapter 3 Hindi Translation सुभाषितरसं पीत्वा जीवनं सफलं कुरु Summary 8

7. दुर्जनेन समं सख्यं प्रीतिं चापि न कारयेत्।
उष्णो दहति चाड्गारः शीतः कृष्णायते करम् ।।7।।

शब्दार्थाः

दुर्जनेन = दुष्ट व्यक्ति से,
समम् = साथ,
सख्यम् = मित्रता,
दहति = जलाता है,
अङ्गारः = अङ्गारा,
कृष्णायते = काला करता है।
संदर्भ – पूर्ववत् ।
पदच्छेदः – दुर्जनेन समं सख्यं प्रीतिं च अपि न कारयेत् उष्ण: दहति च अङ्गारः शीतः कृष्णायते करम् अन्वयः दुर्जनेन समं सख्यं प्रीतिं च अपि न कारयेत्। उष्णः अङ्गारः दहति शीतः च करं कृष्णायते ।
भावार्थ: – दुर्जनेन सह मैत्री न करणीया । यतो हि दुर्जन: विश्वासयोग्यः न भवति । दुर्जनेन सह बन्धुता प्रीति: न करणीया। यतः तस्य दुर्जनस्य मुखे माधुर्य परं हृदये कपटता भवति।
अङ्गारः उष्णः भवति चेत् तापेन करं ज्वालयति । पुनः यदि सः अङ्गारः शीतलः अस्ति तदापि हस्तं मलिनं करोति। तथैव दुर्जनः सर्वदा एव अनिष्टं करोति कारयति च। अत: विद्यया अलङ्कृतोऽपि दुर्जनः परिहर्तव्यः ।
अनुवाद – दुर्जन के साथ मित्रता नहीं करनी चाहिए, क्योंकि दुर्जन विश्वास योग्य नहीं होता । दुर्जन के साथ बंधुता और प्रेम (प्रीति) नहीं करनी चाहिए, क्योंकि दुर्जन के मुख में मधुरता, लेकिन हृदय में कपटता होती है। कोयला गर्म होता है, तो उसकी गर्मी हाथ को जला देती है। यदि वह कोयला ठंडा हो, तो भी हाथ गंदे हो जाते हैं। वैसे ही दुर्जन हमेशा ही अनिष्ट करता है और कराता है। अत: विद्या से अलंकृत होने पर भी दुर्जन को त्याग देना चाहिए।

8. यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत्।
एवं पुरुषकारेण विना दैवं न सिध्यति।।8।।

शब्दार्थाः
यथा = जैसे,
पुरुषकारः = पुरुषार्थ,
दैवम् = भाग्य,
सिध्यति = फलता है।
संदर्भ – पूर्ववत् ।
पदच्छेदः – यथा हि एकेन चक्रेण न रथस्य गतिः भवेत् एवं पुरुषकारेण विना दैवं न सिध्यति ।
अन्वयः – यथा हि एकेन चक्रेण रथस्य गतिः न भवेत् एवं पुरुषकारेण विना दैवं न सिध्यति ।
भावार्थ: – रथस्य गतिः चक्रद्वयेन एव सम्यक् भवति । एकेन चक्रेण रथस्य गमनं न सम्भवेत्। रथस्य गतिः स्थगिता स्यात् । पुरुषार्थेन विना फलं न सिध्यति । भाग्ये स्थितेऽपि उद्योगेन एव फलं लभ्यते । अत्र अनुभूयते यत्-प्रयत्नः भाग्यं च मानवरथस्य द्वे चक्रे स्तः । उक्तम् अपि-
“उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ।”
अनुवाद जिस प्रकार एक चक्र (पहिए) के बिना भी रथ की गति नहीं होती है, उसी प्रकार पुरुषार्थ के बिना भाग्य भी सिद्ध नहीं होता है अर्थात् रथ की गति दोनों चक्रों से ही संभव है। एक चक्र के अभाव में रथ गति नहीं कर सकता, उसी प्रकार चारों पुरुषार्थ में से एक के भी नहीं रहने पर मनुष्य का भाग्य सिद्ध नहीं होता ।
कहा भे गया है – “परिश्रम से ही कार्य सिद्ध होते हैं, मनोरथ से नहीं।”

Class 8 Sanskrit Chapter 3 Hindi Translation सुभाषितरसं पीत्वा जीवनं सफलं कुरु Summary 9

अत्र इदम् अवधेयम्

संस्कृतश्लोकेषु प्रतिपद्यं पादचतुष्टयम् अस्ति ।
छन्दोबद्ध – सस्वरगानशैली अपि अस्ति । श्लोकेषु सन्धिसमासयुक्तपदानि | भवन्ति । यथा—

  • नम्रास्तरवः = नम्राः + तरवः ।
  • अभ्युपैति = अभि + उप + एति ।
  • अनुद्धताः = न उद्धता: (नञ् तत्पुरुषसमासः)।
  • यथाशक्ति = शक्तिम् अनतिक्रम्य (अव्ययीभावः) ।
error: Content is protected !!