Practicing with Deepakam Class 8 Solutions and NCERT Class 8th Sanskrit Deepakam Chapter 3 Question Answer सुभाषितरसं पीत्वा जीवनं सफलं कुरु improves a student’s confidence in the subject.
Sanskrit Class 8 Chapter 3 Question Answer सुभाषितरसं पीत्वा जीवनं सफलं कुरु
Class 8 Sanskrit Chapter 3 NCERT Solutions सुभाषितरसं पीत्वा जीवनं सफलं कुरु
कक्षा 8 संस्कृत पाठ 3 के प्रश्न उत्तर सुभाषितरसं पीत्वा जीवनं सफलं कुरु
१. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत ।
(पाठ के आधार पर निम्नलिखित प्रश्नों के उत्तर एक पद में लिखिए।)
(क) गीतानि के गायन्ति ? ……………..
(ख) कः बलं न वेत्ति ? ……………..
(ग) कः वसन्तस्य गुणं वेत्ति ? ……………..
(घ) मूषकः कस्य बलं न वेत्ति ? ……………..
(ङ) फलोद्गमैः के नम्राः भवन्ति ? ……………..
(च) केन समं सख्यं न करणीयम् ? ……………..
(छ) केन विना दैवं न सिध्यति ? ……………..
उत्तर:
(क) देवा:
(ख) निर्बल:
(ग) पिक:
(घ) सिंहस्य
(ङ) तरवः
(च) दुर्जनेन
(छ) पुरुषार्थेन
२. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत ।
(पाठ के आधार पर निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में लिखिए।)
(क) तरवः कदा नम्राः भवन्ति ? …………………..
(ख) समृद्धिभिः के अनुद्धताः भवन्ति ? …………………..
(ग) सत्पुरुषाणां स्वभावः कीदृशः भवति? …………………..
(घ) सत्यं कदा सत्यं न भवति ? …………………..
(ङ) दैवं कदा न सिध्यति ? …………………..
उत्तर:
(क) फलोद्गमैः नम्रास्तरवः भवन्ति ।
(ख) समृद्धिभिः ‘सत्पुरुषा’ अनुद्धताः भवन्ति ।
(ग) सत्पुरुषा स्वभाव: ‘परोपकारी’ भवति।
(घ) सत्यम् न तद्यच्छलमभ्युपैति सत्यं न भवति।
(ङ) पुरुषकारेण विना दैवं न सिध्यति।
३. स्तम्भयोः मेलनं कुरुत ।
(स्तंभो का मिलान कीजिए।)

उत्तर:
(क) (iii) भारतभूमेः माहात्म्यवर्णनम्
(ख) (iv) सज्जनः एव गुणानां मर्मज्ञ
(ग) (i) सत्पुरुषाणां स्वभाविकी नम्रता
(घ) (ii) सुवर्ण चतुर्भिः प्रकारैः परीक्ष्यते
(ङ) (v) प्रजा, दम:, दानं, कृतज्ञता इत्यादयः
(च) (vii) दुष्टसङ्ग: उष्णाङ्गारसदृशः
(छ) (vi) केवलं दैवं प्रयत्नं विना असिद्धम्
४. अधः प्रदत्तमञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत ।
(नीचे दी गई मजूषा से पद चुनकर रिक्त स्थानों की पूर्ति कीजिए |)
• मञ्जूषा फलोद्गमैः, गुणं, कृतज्ञता, सिध्यति, श्रुतम्, शीलेन।
(क) गुणी ……………. वेत्ति न वेत्ति निर्गुणः।
(ख) भवन्ति नम्राः तरवः ………।
(ग) पुरुषः परीक्ष्यते कुलेन ……….,गुणेन, कर्मणा।
(घ) गुणाः पुरुषं दीपयन्ति – प्रज्ञा, कौल्यं, दमः, ………..।
(ङ) दानं यथाशक्ति ………… च।
(च) एवं पुरुषकारेण विना दैवं न ……….।
उत्तर:
(क) गुणं
(ख) फलोद्गमैः
(ग) शीलेन
(घ) श्रुतम्
(ङ) कृतज्ञता
(च) सिध्यति
५. समुचितं विकल्पं चिनुत ।
(उचित विकल्प चुनिए ।)
(क) ‘गायन्ति देवाः किल गीतकानि’ इत्यस्य श्लोकस्य मुख्यविषय: क: ?
(i) वसन्तस्य सौन्दर्यम्
(ii) भारतभूमेः गौरवम्
(iii) कर्मणां फलम्
(iv) दानस्य प्रभावः
उत्तर:
(ii) भारतभूमेः गौरवम्
(ख) ‘गुणी गुणं वेत्ति’ इत्यत्र कः गुणं न जानाति ?
(i) गुणी
(ii) निर्गुण:
(iii) पिक:
(iv) बली
उत्तर:
(ii) निर्गुण:
(ग) ‘पिको वसन्तस्य गुणं न वायसः’ इत्यस्य तात्पर्यं किम् ?
(i) पिक: मधुरं गायति न वायसः
(ii) सुजन एव गुणं जानाति
(iii) वायसः अपि सरसं गानं करोति
(iv) वसन्तः निर्गुणः अस्ति
उत्तर:
(i) पिक: मधुरं गायति न वायसः
(घ) ‘भवन्ति नम्राः तरवः फलोद्गमैः’ इत्यस्य अर्थः कः ?
(i) वृक्षाणां कठोरता
(ii) सत्पुरुषाणाम् उन्नतिः
(iii) फलयुक्ताः वृक्षाः नम्राः भवन्ति
(iv) परोपकारिणां दुर्बलता
उत्तर:
(iii) फलयुक्ताः वृक्षाः नम्राः भवन्ति
(ङ) ‘न सा सभा यत्र न सन्ति वृद्धा:’ इत्यत्र सभायाः महत्त्वं किम् ?
(i) सभा मनोरञ्जनाय भवति
(ii) सभा धनसम्पत्तिं प्रदातुं शक्नोति
(iii) धर्मोपदेशाय ज्ञानवृद्धाः जनाः आवश्यकाः
(iv) सभा केवलं राजकार्यार्थं भवति
उत्तर:
(iii) धर्मोपदेशाय ज्ञानवृद्धाः जनाः आवश्यकाः
(च) दुर्जनेन सह सख्यं किमर्थं न कार्यम् ?
(i) सः मित्रं भवति
(ii) सः धनं ददाति
(iii) स: शिक्षां ददाति
(iv) स: उष्णाङ्गारवद् हानिकरः भवति
उत्तर:
(च) (iv) स: उष्णाङ्गारवद् हानिकरः भवति
योग्यताविस्तारः
- विष्णुपुराणम्-प्रसिद्धेषु अष्टादशसु पुराणेषु विष्णुपुराणम् अन्यतमम् । अस्मिन् पुराणे प्रायेण सप्तसहस्राधिकश्लोकाः सन्ति । अत्र भगवत: विष्णोः तस्य च अवताराणां विषये वर्णितम् । भारतवर्षस्य गौरवविषये विष्णुपुराणम् अतीव प्रामाणिकं तथ्यं प्रकाशयति।
- महाभारतम्-संस्कृतसाहित्ये महाभारतम् इति इतिहासग्रन्थः पञ्ममवेदरूपेण स्वीकृतः । अस्मिन् ग्रन्थे लक्षाधिकाः श्लोकाः सन्ति। अतः शतसाहस्रीसंहिता इति अस्य अपरं नाम । महाभारते अष्टादश पर्वाणि सन्ति ।
- भर्तृहरिः-भर्तृहरिः संस्कृतकाव्यवाङ्गये महान् कविः अस्ति । नीतिशास्त्रविशारदस्य तस्य कृतयः नीतिशतकं शृङ्गारशतकं वैराग्यशतकं चेति भारतीयज्ञानपरम्परां पोषयन्ति ।
- हितोपदेश:-पण्डितनारायन हितोपदेशः कथाग्रन्थः सङ्कलितः । ग्रन्थेऽस्मिन् विविधाः कथाः नीतिश्लोकाः च सन्ति । हितोपदेशः चतुर्धा विभक्त:- मित्रलाभः, सुहृद्भेदः, विग्रहः, सन्धिः । चाणक्यनीति:-चाणक्यस्य नीतिश्लोकाः माणिक्यसदृशाः सन्ति । बालानां चरिस्त्रनिर्माणाय आदर्शमानवजीवनप्रतिष्ठार्थं च
- आचार्यस्य चाणक्यस्य नीत्युपदेशा: अत्यन्तम् उपयोगिनः सन्ति ।
परियोजनाकार्यम्
१. अन्तर्जालात् पुस्तकेभ्यश्च विंशतिसुभाषितानां सङ्ग्रहं कुरु ।
२. किमपि नीतिवाक्यम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत ।
३. पाठे आगतानि सुभाषितानि कण्ठस्थीकृत्य कक्षायां श्रावयत।