Class 8 Sanskrit Chapter 4 Question Answer Solutions प्रणम्यो देशभक्तोऽयं गोपबन्धुर्महामनाः

Practicing with Deepakam Class 8 Solutions and NCERT Class 8th Sanskrit Deepakam Chapter 4 Question Answer प्रणम्यो देशभक्तोऽयं गोपबन्धुर्महामनाः improves a student’s confidence in the subject.

Sanskrit Class 8 Chapter 4 Question Answer प्रणम्यो देशभक्तोऽयं गोपबन्धुर्महामनाः

Class 8 Sanskrit Chapter 4 NCERT Solutions प्रणम्यो देशभक्तोऽयं गोपबन्धुर्महामनाः

कक्षा 8 संस्कृत पाठ 4 के प्रश्न उत्तर प्रणम्यो देशभक्तोऽयं गोपबन्धुर्महामनाः

१. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखत ।

(निम्नलिखित प्रश्नों के उत्तर एक पद में लिखिए।)

(क) समाज – दिनपत्रिकायाः प्रतिष्ठाता क: ?
(ख) गोपबन्धुः कस्मै स्वभोजनं दत्तवान् ?
(ग) मरणासन्नः कः आसीत् ?
(घ) गोपबन्धुः केन उपाधिना सम्मानितः अभवत् ?
(ङ) गोपबन्धुः कति वर्षाणि कारावासं प्राप्तवान् ? उत्तराणि
उत्तर:
(क) गोपबन्धुः महोदय:
(ख) भिक्षुकाय
(ग) स्वपुत्रः
(घ) उत्कलमणि:
(ङ) वर्षद्वयं

२. एकवाक्येन उत्तरं लिखत ।

(एक वाक्य में उत्तर लिखिए।)

(क) गोपबन्धुः किमर्थम् अश्रुपूर्णनयनः अभवत्?
(ख) कीदृशं पुत्रं विहाय गोपबन्धुः समाजसेवाम् अकरोत् ?
(ग) गोपबन्धोः कृते उत्कलमणिः इति उपाधिः किमर्थं प्रदत्तः ?
(घ) गोपबन्धुः कुत्र जन्म लब्धवान् ?
(ङ) गोपबन्धुः सर्वदा केषाम् उपयोगं कृतवान् ?
उत्तर:
(क) आँ………….आँ……….. इति क्रन्दनध्वनि श्रुत्वैव दयाविगलितहृदय गोपबन्धुः अश्रुपूर्णनयनोऽभवत्।
(ख) मरणासन्नं स्वपुत्रमपि विहाय गोपबन्धुः समाजसेवां अकरोत् ।
(ग) समाजसेवायै देशसेवायै च तस्य असीमं त्यागमनुभवन् कृते उपाधि: प्रदत्त:।
(घ) ओडिशाराज्यस्य पुरीजनपदस्य साक्षीगोपालसमीपे सुआण्डो-ग्रामे जन्म लब्धवान्।
(ङ) गोपबन्धु सर्वदा स्वदेशस्यैव वस्त्राणां वस्तूनां च उपयोगं कृतवान्।

Class 8 Sanskrit Chapter 4 Question Answer Solutions प्रणम्यो देशभक्तोऽयं गोपबन्धुर्महामनाः

३. कोष्ठके दत्तानि पदानि उपयुज्य वाक्यानि रचयत।

(कोष्ठक में दिए गए पदों का प्रयोग करके वाक्य रचिए ।)
(सेवां, सुस्वादूनि, सहायतां, स्वदेशवस्त्राणि, अन्यतमः)
उत्तर:
(क) गोपबन्धुः जलप्लावपीडितानाम् अकुण्ठं सेवां कृत्वा अद्यापि जनमानसेषु समादृतोऽस्ति ।
(ख) बहूनि सुस्वादूनि व्यञ्जनानि कदलीपत्रेषु परिवेषितानि ।
(ग) अस्माभिः एतादृशानां दुःखितानां सहायतां करणीया ।
(घ) गोपबन्धुः सर्वदा स्वदेशवस्त्राणि वस्तूनां च उपयोगं कृतवान्।
(ङ) प्रसिद्धेषु पञ्चमित्रेषु अन्यतमः स्वतन्त्रसङ्ग्रामी चासीत्।

४. चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।

(चित्र को देखकर पाँच वाक्य रचिए ।)
Class 8 Sanskrit Chapter 4 Question Answer Solutions प्रणम्यो देशभक्तोऽयं गोपबन्धुर्महामनाः 1
उत्तर:
(क) एकदा अहं आपणं गच्छामि स्म ।
(ख) मार्गे एकः रोगी दृष्टः ।
(ग) अहं तं चिकित्सालयं नीतवान् ।
(घ) चिकित्सकाः तस्य सम्यक् चिकित्सा कृतवन्तः ।
(ङ) रोगी स्वस्थः भूत्वा गृहं गतः ।

५. समुचितेन पदेन श्लोकं पूरयत ।

(समुचित पद से श्लोकों को पूरा कीजिए ।)

(क) ………… मम लीयतां तनुः
(ख) उत्कलमणिरित्याख्यः प्रसिद्धो …………
(ग) स्वदेशलोकास्तदनु ……….. नु
(घ) स्वराज्यमार्गे यदि ………….,
(ङ) ……….. परिपूरितास्तु सा
उत्तर:
(क) स्वदेशभूमौ
(ख) लोकसेवकः
(ग) प्रयान्तु
(घ) गर्तमालिका
(ङ) ममास्थिमांसैः

६. उदाहरणानुसारं क्रियापदं स्त्रीलिङ्गे परिवर्तयत ।

(उदाहरण के अनुसार क्रिया पदों को स्त्रीलिंग में परिवर्तित करें ।)
Class 8 Sanskrit Chapter 4 Question Answer Solutions प्रणम्यो देशभक्तोऽयं गोपबन्धुर्महामनाः 2
उत्तर:
(क) प्राप्तवती
(ख) उपविष्टवती
(ग) भुक्तवती
(घ) कृतवती
(ङ) गृहीतवती

७. समुचितेन पदेन सह स्तम्भौ मेलयत ।

(समुचित पदों के साथ स्तंभों को मिलाइए।)
Class 8 Sanskrit Chapter 4 Question Answer Solutions प्रणम्यो देशभक्तोऽयं गोपबन्धुर्महामनाः 3
उत्तर:
(क) (iv) दिनपत्रिका
(ख) (v) परिपूरितास्तु
(ग) (i) गोपबन्धुः
(घ) (iii) क्रन्दनध्वनिः
(ङ) (ii) व्यञ्जनानि

Class 8 Sanskrit Chapter 4 Question Answer Solutions प्रणम्यो देशभक्तोऽयं गोपबन्धुर्महामनाः

८. घटनाक्रमेण वाक्यानि पुनः लिखत ।

(घटना क्रम में वाक्यों को पुनः लिखिए |)

(क) भिक्षुकञ्च तद्भोजितवान् ।
(ख) प्रफुल्लचन्द्ररायः गोपबन्धुम् उत्कलमणिः इति उपाधिना सम्मानितवान्।
(ग) गोपबन्धुः अश्रुपूर्णनयनोऽभवत् ।
(घ) अतिथयो हस्तपादं क्षालयित्वा आसनेषु उपविष्टवन्तः ।
(ङ) दिनत्रयात् किमपि न भुक्तम् ।
(क) ………………………………
(ख) ………………………………
(ग) ………………………………
(घ) ………………………………
(ङ) ……………………………….
उत्तर:
1. (घ) अतिथयो हस्तपादं क्षालयित्वा आसनेषु उपविष्टवन्तः।
2. (ङ) दिनत्रयात् किमपि न भुक्तम् ।
3. (ग) गोपबन्धुः अश्रुपूर्णनयनोऽभवत्।
4. (क) भिक्षुकञ्च तद्भोजितवान् ।
5. (ख) प्रफुल्लचन्द्ररायः गोपबन्धुम् उत्कलमणिः इति उपाधिना सम्मानितवान्।

योग्यताविस्तारः

भोजनस्यातिदौर्लभ्यं जीवनाय सुखप्रदम्।
तदर्थं भोजनं कुर्याः – मा शरीरे दयां कुरु ॥
पदच्छेदः – भोजनस्य अतिदौर्लभ्यं जीवनाय सुखप्रदम् तदर्थं भोजनं कुर्याः मा शरीरे दयां कुरु ।
अन्वयः – भोजनस्य अतिदौर्लभ्यं (विद्यते) । जीवनाय सुखप्रदं भोजनं कुर्याः। तदर्थं शरीरे दयां मा कुरु ।
भावार्थः – भोजनम् अतीव दुर्लभं भवति । जीवनम् अग्रे नेतुं सुखप्रदं भोजनं करणीयम्। अतः शरीरस्य कष्टं विचिन्त्य भोजनविषये कदापि सङ्कोचः लज्जा वा न करणीया इति ।
उत्कलमणि – गोपबन्धुदासस्य जीवनपरिचयः
उत्कलमणिः गोपबन्धुदासः
जन्म-09/10/1877
भावार्थः भोजनम् अतीव दुर्लभं भवति । जीवनम् अग्रे नेतुं सुखप्रदं भोजनं करणीयम्। अतः शरीरस्य कष्टं विचिन्त्य भोजनविषये कदापि सङ्कोचः लज्जा वा न करणीया इति ।
उत्कलमणि – गोपबन्धुदासस्य जीवनपरिचयः उत्कलमणिः गोपबन्धुदासः
जन्म-09/10/1877
जन्मस्थानम् – सुआण्डो-ग्रामः, पुरी- जनपदः, ओडिशाराज्यम् पिता – दैत्यारिदासः माता-स्वर्णमयी देवी
पत्नी – मोती देवी
एफ्. ए. उत्तीर्ण:-1900, रेभेन्सा महाविद्यालयः, कटकम्, ओडिशा
बी.एल्. उत्तीर्णः – 1906, कलकत्ता-विश्वविद्यालयः
सत्यवादि – वनविद्यालयस्य प्रतिष्ठा – 1909
बिहार-ओडिशा व्यवस्थापकसभायाः सदस्यः – 1917
समाज – साप्ताहिकपत्रिकायाः प्रकाशनम् – 1919
भारतीय – जातीय- आन्दोलने योगदानम् – 1920
उत्कलमणिः इति उपाधिना सम्माननम् – 1924
रचना: – अवकाशचिन्ता, बन्दीर आत्मकथा, कारा-कविता, धर्मपद, गो-माहात्म्य, नचिकेता- उपाख्यान स्वर्गारोहणम् (साक्षी-गोपाले) – 17.06.1928
सत्यवादि – वनविद्यालयः
भारतस्य प्रथमः मुक्तविद्यालयः । 1909 ख्रिस्ताब्दे अगस्तमासस्य 12 दिनाङ्के साक्षीगोपाल – नामके स्थाने प्रतिष्ठापितः। पण्डितः गोपबन्धुदासः, पण्डितः नीलकण्ठदासः, पण्डितः डॉ. गोदावरीशमिश्रः, पण्डितः कृपासिन्धुमिश्रः पण्डितः लिङ्गराजमिश्रः, आचार्यः हरिहरदासः, पण्डितः नन्दकिशोरदासः च इत्येषां देशभक्तानां मिलितप्रयासेन अयं निःशुल्कवनविद्यालयः तदानीम् आभारतं प्रतिष्ठाम् अलभत। पञ्चसखायः मिलित्वा समाजसेवां कुर्वन्तः शिक्षाविकासं च कारयन्तः स्वाधीनतान्दोलनाय जनान् प्रेरयन्ति स्म ।

परियोजनाकार्यम्

१. स्वप्रदेशस्य स्वतन्त्रतासङ्ग्रामिणां नामानि सङ्गृह्य तेषु एकस्य सचित्रां संक्षिप्तजीवनीं लिखत ।
२. जलप्लावपीडितानां साहाय्यार्थं स्वकीयाम् एकां कार्ययोजनां लिखत।

error: Content is protected !!