Class 8 Sanskrit Chapter 5 Hindi Translation गीता सुगीता कर्तव्या Summary

For quick revisions, Sanskrit Class 8 Notes and NCERT Class 8 Sanskrit Chapter 5 Hindi Translation Summary Explanation Notes गीता सुगीता कर्तव्या is a highly effective tool.

Sanskrit Class 8 Chapter 5 Hindi Translation गीता सुगीता कर्तव्या Summary

गीता सुगीता कर्तव्या Meaning in Hindi

Class 8 Sanskrit Chapter 5 Summary Notes गीता सुगीता कर्तव्या

भारतभूमि पर अनेक युद्ध हुए हैं, यह भूमि वीर और वीरांगणाओं की कही जाती है। उनमें सबसे प्रसिद्ध युद्ध कौरव-पांडवों का युद्ध था, जिसे महाभारत के नाम से जाना जाता है। यह युद्ध 18 दिनों तक चला। इस युद्ध में अर्जुन ने, जो कि पृथ्वी के श्रेष्ठ धुनर्धर थे, युद्ध करने से मना कर दिया। उस समय उनकी मन की दुर्बलता को देखकर भगवान श्रीकृष्ण ने जो उपदेश दिया, वही उपदेश ‘गीता’ है। इस उपदेश में “कर्मयोग तथा आत्मा” मुख्य विषय रहे हैं। प्रस्तुत पाठ मे रमेश नामक बालक को गीता के बारे में जानकारी प्रदान करते हुए गीता के उपदेश के बारे में बताया गया है। गीता का उपदेश उस समय जितना उपयोगी और महत्त्वपूर्ण था, उतना ही आज भी है।

Class 8 Sanskrit Chapter 5 Hindi Translation गीता सुगीता कर्तव्या Summary 7

Class 8 Sanskrit Chapter 5 Hindi Translation गीता सुगीता कर्तव्या

1. कुरुक्षेत्रे श्रीगीता-जयन्ती – महोत्सवः आचरितः । तत्र बहवः जनाः अगच्छन्। रमेशः अपि स्वजनकेन सह तत्र गतवान्। कथावाचकः गीतायाः विषये वर्णयति स्म
“गीता सुगीता कर्त्तव्या किमन्यैः शास्त्रविस्तरैः।
या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता ?”
इदं श्रुत्वा रमेशः पितरम् अपृच्छत् – “पितः ! गीता का ? कथं सुगीता कर्त्तव्या ?”
पिता – पुत्र! बहुभ्यः वर्षेभ्यः पूर्वं कुरुक्षेत्रे कौरवाणां पाण्डवानां च मध्ये सङ्ग्रामः अभवत् । तस्मिन् युद्धे स्वबान्धवान् दृष्ट्वा अर्जुनः युद्धं कर्तुं न इच्छति स्म, तदा भगवान् श्रीकृष्णः युद्धपराङ्मुखम् अर्जुनं कर्त्तव्यपालनार्थम् उपदिष्टवान्। श्रीकृष्णस्य उपदेशः एव श्रीमद्भगवद्गीता अस्ति। गीतायाम् अमृततुल्याः उपदेशाः सन्ति।
रमेशः – तर्हि सुगीता कर्त्तव्या इत्यस्य कः आशयः ?
पिता – अस्य आशयः अस्ति यत् – गीतायाः अभ्यासः सम्यक् रूपेण करणीयः । गीता उत्तमभावेन पठितव्या । कार्यक्षेत्रे जीवनक्षेत्रे च गीतायाः उपदेशाः अनुपालनीयाः । अस्मिन् पाठे वयं श्रीमद्भगवद्गीतायाः काश्चन श्लोकान् पठामः। वयं श्लोकान् मिलित्वा गायामः अपि।

शब्दार्थाः
महोत्सवः = त्योहार,
आचरितः = चल रहा था,
अगच्छन् = गए,
कथावाचकः = कथावाचक,
सुगीता = अच्छी तरह से गाई जाने वाली,
युद्धपराङ्मुखम् = युद्ध विमुख,
अमृततुल्याः = अमृत के समान।
संदर्भ – प्रस्तुत गद्यांश हमारी पाठ्य-पुस्तक दीपकम् के ‘गीता सुगीता कर्त्तव्या’ पाठ से उद्धृत है।
अनुवाद – कुरुक्षेत्र में श्री गीता जयंती त्योहार मनाया गया। वहाँ बहुत-से लोग गए। रमेश भी अपने पिता के साथ वहाँ गया। कथावाचक ने गीता के विषय में वर्णन किया कि
“एक अच्छी तरह से गाई जाने वाली गीता, शास्त्रों में अन्य विवरणों के साथ गानी चाहिए, जो भगवान पद्मनाभ के मुखकमल से प्रकट हुई थी ।”
यह सुनकर रमेश ने अपने पिता से पूछा – “पिताजी! गीता क्या है? कैसे अच्छी तरह गानी चाहिए।”
पिता – पुत्र ! कई वर्ष पहले कुरुक्षेत्र में कौरवों और पांडवों के बीच युद्ध हुआ था। उस युद्ध में अपने सगे-संबंधियों को देखकर अर्जुन युद्ध नहीं करना चाहता, तब भगवान कृष्ण ने युद्ध से विमुख हुए योद्धा अर्जुन को अपना कर्त्तव्य निभाने का निर्देश दिया। श्रीकृष्ण का उपदेश ही श्रीमद्भगवद्गीता है। गीता में अमृततुल्य उपदेश समाहित हैं।
रमेश – तो अच्छी तरह गाने का क्या तात्पर्य है?
पिता – इसका आशय है कि गीता का अभ्यास सम्यक् रूप से करना चाहिए। गीता को उत्तम भाव से पढ़ना चाहिए । कार्यक्षेत्र में और जीवन क्षेत्र में गीता के उपदेशों का अनुपालन करना चाहिए। इस पाठ में हम श्रीमद्भगवद्गीता के कुछ श्लोक पढ़ेंगे। हम भी श्लोकों को मिलकर गाए।

Class 8 Sanskrit Chapter 5 Hindi Translation गीता सुगीता कर्तव्या Summary 8

2. दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ।।1।।

शब्दार्थाः
अनुद्विग्नमनाः = अविचलित मन वाला,
विगतस्पृहः = आसक्ति रहित,
वीतरागभयक्रोधः = वासना, भय और क्रोध से रहित,
स्थितधीः = स्थिर मन वाला,
मुनिः = तपस्वी ।
संदर्भ – पूर्ववत्।
पदच्छेद – दुःखेषु अनुद्विग्नमनाः सुखेषु विगतस्पृहः वीत-राग-भय- क्रोधः स्थितधीः मुनिः उच्यते ।
अन्वयः – दुःखेषु अनुद्विग्नमनाः सुखेषु विगतस्पृहः वीत-राग-भय- क्रोधः मुनिः स्थितधी: (इति) उच्यते ।
भावार्थः – यः मनुष्यः आपत्कालेषु उद्वेगं न अनुभवति । यः सुखप्राप्तये अपि निस्पृहः (इच्छारहितः) भवति । य: इच्छा, आसक्तिः, भय, क्रोधः, इत्येतेभ्यः मुक्तः भवति । सः मौनी पुरुषः स्थितप्रज्ञः भवति ।
अनुवाद – जो मनुष्य विपत्ति के समय में व्याकुलता का अनुभव नहीं करता है, जो सुख – प्राप्ति पर भी इच्छा रहित होता है, जो इच्छा, आसक्ति, भय, क्रोध आदि से मुक्त होता है, वह मौनी पुरुष स्थितप्रज्ञ ( स्थिर बुद्धि वाला) होता है।

3. क्रोधादभवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः ।
स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ।।2।।

शब्दार्थाः
सम्मोहः = कर्त्तव्य, अकर्त्तव्य का अविवेक,
स्मृतिविभ्रमः = स्मरणशक्ति का नाश होना,
प्रणश्यति = प्राणों का नाश |
संदर्भ – पूर्ववत्।
पदच्छेदः – क्रोधात् भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः स्मृतिभ्रंशात् बुद्धिनाशः बुद्धिनाशात् प्रणश्यति ।
अन्वयः – क्रोधात् सम्मोहः भवति । सम्मोहात् स्मृतिविभ्रमः (भवति) । स्मृतिभ्रंशात् बुद्धिनाश: (भवति) । बुद्धिनाशात् (जनः) प्रणश्यति। भावार्थ: मानवस्य यदा क्रोधः भवति तदा क्रोधात् अविवेकः उत्पद्यते। अविवेकात् आत्मानं विस्मरति । किं योग्यं किञ्च अयोग्यम् इति अविचिन्त्य क्रोधात् व्यामोहं प्राप्नोति । यदा अधिकः व्यामोहः भवति तदा मनुष्यस्य स्मृतिः निष्क्रिया नष्टा च भवति । स्मृतेः नाशात् बुद्धिः नश्यति । बुद्धेः नाशात् सः मनुष्यः विनाशं प्राप्नोति ।
अनुवाद – क्रोध से सम्मोह होता है। सम्मोह से स्मृति भ्रम है। स्मृति भ्रम से बुद्धि का नाश होता है और बुद्धि के नाश से मनुष्य का नाश हो जाता है।

Class 8 Sanskrit Chapter 5 Hindi Translation गीता सुगीता कर्तव्या Summary 9

3. तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः।।3।।

शब्दार्थाः
प्रणिपातेन = प्रणाय के द्वारा,
परिप्रश्नेन = प्रश्नों के द्वारा,
उपदेक्ष्यन्ति = उपदेश देंगे,
तत्त्वदर्शिनः = तत्त्वज्ञानी ।
संदर्भ – पूर्ववत् ।
पदच्छेदः – तद् विद्धि प्रणिपातेन परिप्रश्नेन सेवया उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनः तत्त्वदर्शिनः ।
अन्वयः – तद् प्रणिपातेन सेवया परिप्रश्नेन विद्धि, ते तत्त्वदर्शिनः ज्ञानिनः ज्ञानम् उपदेक्ष्यन्ति ।
भावार्थः – भगवान श्रीकृष्णः, अर्जुनम् उपदिशति – हे अर्जुन! भवान् गुरोः समीपं गत्वा यथार्थज्ञानं प्राप्तुं प्रयासं करोतु । भवान् विनीतः जिज्ञासुः च भूत्वा गुरोः सेवां करोतु । तत्त्वज्ञानी गुरुः भवते ज्ञानं प्रदास्यति । यतः ये सत्यस्य दर्शनं कृतवन्तः ते एव यथार्थज्ञानिनः भवन्ति ।
अनुवाद – भगवान श्रीकृष्ण, अर्जुन को उपदेश देते हैं कि हे अर्जुन! आप गुरु के पास जाकर यथार्थ ज्ञान प्राप्त करने के लिए प्रयास करो । आप विनीत और जिज्ञासु होकर गुरु की सेवा करो । तत्त्वज्ञानी ‘गुरु’ आपको ज्ञान प्रदान करेंगे, क्योंकि जो सत्य का दर्शन करते हैं। वही यथार्थ ज्ञानी होते हैं।

4. श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः।
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति।।4।।

शब्दार्थाः
श्रद्धावान् = श्रद्धा से युक्त,
संयतेन्द्रियः = संयमित इंद्रियों वाला,
परां = परम,
अधिगच्छति = प्राप्त करता है।
संदर्भ – पूर्ववत्।
पदच्छेदः – श्रद्धावान् लभते ज्ञानं तत्परः संयतेन्द्रियः ज्ञानं लब्ध्वा परां शान्तिम् अचिरेण अधिगच्छति ।
अन्वयः – संयतेन्द्रियः तत्परः श्रद्धावान् (मनुष्यः) ज्ञानं लभते । तथा ज्ञानं लब्ध्वा (सः) अचिरेण परां शान्तिम् अधिगच्छति।
भावार्थः – यः श्रद्धालुः मनुष्यः दिव्यज्ञानं प्राप्तुं निरन्तरं प्रयासं करोति । तथैव यः मनुष्यः इन्द्रियाणि स्ववशे कृतवान्। सः मनुष्यः दिव्यज्ञानं प्राप्स्यति। तादृशं दिव्यं ज्ञानं प्राप्य सः पुरुषः जीवने अनन्तम् आनन्दं प्राप्नोति ।
अनुवाद – अपनी इंद्रियों को वश में करके जो श्रद्धालु मनुष्य दिव्य ज्ञान प्राप्त करने का निरंतर प्रयास करता है, वही ज्ञान प्राप्त करके परम शांति को प्राप्त करता है ।

5. अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च।
निर्ममो निरहङ्कारः समदुःखसुखः क्षमी।।5।।

शब्दार्थाः
सर्वभूतानां = सभी प्राणियों का,
मैत्र = मित्रता के भाव वाला,
निर्मम = ममत्व से विहीन,
क्षमी = क्षमाशील, अद्वेष्टा, द्वेष न करने वाला।
संदर्भ – पूर्ववत्।
पदच्छेदः – अद्वेष्टा सर्वभूतानां मैत्रः करणः एव च निर्ममः निरहङ्कारः समदुःखसुखः क्षमी ।
अन्वयः – (य:’) सर्वभूतानाम् अद्वेष्टा मैत्रः च करुणः एव निर्ममः निरहङ्कारः समदुःखसुखः क्षमी (अस्ति सः एव मम प्रियः भवति ।)
भावार्थ: – हे अर्जुन! यः कस्यामपि परिस्थितौ विचलितः न भवति । यः ईर्ष्यारहितः समस्तप्राणिनां कृते मित्रभावयुतः दयालुः च भवति। य: ममत्वरहित:, अहङ्कारविहीनः सुखदुःखेषु समभावयुतः क्षमाशीलः च भवति तादृश: पुरुष: भगवतः अत्यन्तं प्रियः भक्तः भवति ।
अनुवाद – हे अर्जुन! जो किसी भी परिस्थिति में विचलित नहीं होता है, जो ईर्ष्या रहित सभी प्राणियों के साथ मित्रवत व दयालु होता है, जो ममत्व रहित, अहंकारविहीन, सुख दुःख में समान भाव से युक्त और क्षमाशील होता है। वही पुरुष भगवान का अत्यंत प्रिय भक्त होता है।

6. सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः।
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ।। 6 ।।

शब्दार्थाः
यतात्मा = संयमी (इंद्रियों को वश में करने वाला),
दृढनिश्चयः = दृढ़ निश्चय वाला,
अर्पितमनोबुद्धिः = मन और बुद्धि को अर्पित करने वाला।
संदर्भ – पूर्ववत् ।
पदच्छेदः – सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः मयि अर्पितमनोबुद्धिः यः मद्भक्तः सः मे प्रियः ।
अन्वयः – यः योगी सततं सन्तुष्टः यतात्मा दृढनिश्चयः मयि (च) अर्पितमनोबुद्धिः (भवति) सः मद्भक्तः मे प्रियः (भवति) ।
भावार्थ: – हे पार्थ! यः निरन्तरं सन्तुष्टः भवति अर्थात् कस्यापि वस्तुनः अभावात् कदापि असन्तुष्टः न भवति । यः मनः इन्द्रियाणि च विजित्य संयमी भवति । य: स्वबुद्ध्या परमेश्वरस्य स्वरूपं स्थिरीकरोति । यश्च मनः बुद्धिं च ईश्वरे समर्पयति । सः मनुष्यः मम अतीव प्रियतमः भक्तः भवति।
अनुवाद – हे पार्थ! जो योगी निरंतर संतुष्ट होता है अर्थात् किसी वस्तु के अभाव में कभी असंतुष्ट नहीं होता। जो मन और इंद्रियों को जीतकर आत्म-संयमित हो जाता है, जो अपनी बुद्धि को परमेश्वर स्वरूप में स्थिर करता है, जिसका मन और बुद्धि ईश्वर को समर्पित है। वह मनुष्य मेरा बहुत प्रिय भक्त होता है।

Class 8 Sanskrit Chapter 5 Hindi Translation गीता सुगीता कर्तव्या Summary 10

7. यस्मान्नोद्विजते लोकः लोकान्नोद्विजते च यः ।
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ।। 7 ।।

शब्दार्थाः
उद्विजयते = उद्विग्न होता है,
लोकः = संसार,
हर्ष = आनंद,
अमर्ष = क्रोध,
मुक्तः = मुक्त।
संदर्भ – पूर्ववत् ।
पदच्छेदः – दः यस्मात् न उद्विजते लोक: लोकात् न उद्विजते च यः हर्ष – अमर्ष-भय- उद्वेगैः मुक्तः यः सः च मे प्रियः ।
अन्वयः – यस्मात् लोक न उद्विजते, य: च लोकात् न उद्विजते, य: च हर्ष – अमर्ष-भय- उद्वेगै: मुक्तः स मे प्रियः (भवति)।
भावार्थ: – हे अर्जुन! यस्मात् मनुष्यात् कोऽपि मनुष्यः प्राणी वा उद्विग्नः न भवति । यश्च मनुष्यः अन्यस्मात् जनात् प्राणिनः वा उद्विग्नः न भवति । यश्च हर्षेण, ईर्ष्यया, भीत्या, चिन्तया च रहितः भवति । सः मम अतीव प्रियः भक्तः भवति ।
अनुवाद – हे अर्जुन! जिस मनुष्य से कोई भी मनुष्य या प्राणी उद्विग्न (व्याकुल) नहीं होता, जो मनुष्य किसी अन्य व्यक्ति या प्राणी के लिए चिंतित नहीं होता, जो हर्ष, अमर्ष (क्रोध), ईर्ष्या, भय और चिंता से रहित होता है, वह मेरा अतीव प्रिय भक्त होता है।

8. अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ।।8।।

शब्दार्थाः
अनुद्वेगकरम् = व्याकुलता न करने वाला,
अभ्यसनं = अभ्यास,
वाङ्मयम् = वाचिक,
उच्यते = कहा गया है।
संदर्भ – पूर्ववत् ।
पदच्छेदः – अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् – स्वाध्यायाभ्यसनं च एव वाङ्मयं तपः उच्यते ।
अन्वयः – यद् वाक्यम् अनुद्वेगकरं सत्यं प्रियहितं च (तथा) स्वाध्यायाभ्यसनं च एव वाङ्मयं तपः उच्यते।
भावार्थः – यत् अनुद्वेगकरं (भषणम् उद्वेगं न जनयेत्), सत्यं, प्रियकरं, हितकरं च भाषणं स्यात्, तत् वाङ्मयं तपः इति कथ्यते । शास्त्रादीनां स्वाध्यायः, तेषाम् अभ्यासः च वाचिकं तपः कथ्यते तथा स्वाध्यायः अभ्यासश्चापि यथाविधि वाङ्मयं तपः इति उच्यते। अत: विद्यार्थिभिः स्मरणीयं यत्
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः,
तस्मात् तदेव वक्तव्यं वचनेन का दरिद्रता ।
अनुवाद – जो व्याकुल न करने वाला, सत्य, प्रियकर, हितकर, भाषण होता है, वही वाचिक तप कहा गया है। शास्त्र आदि का स्वाध्याय और उनका अभ्यास ‘वाचिक’ तप कहा जाता है तथा यथा विधि से किया गया स्वाध्याय अभ्यास वाचिक तप कहा जाता है। अतः विद्यार्थियों को याद रखना चाहिए कि “प्रिय वाक्य बोलने से सभी लोग संतुष्ट होते हैं, इसलिए वचनों में दरिद्रता नहीं करनी चाहिए ।”

अत्र इदम् अवधेयम्

आधारे सप्तमी विभक्तेः प्रयोगः भवति । यथा — उत्पीठिकायां पुस्तकम् अस्ति। दुःखेषु अनुद्विग्नमनाः भवेत् । सुखेषु विगतस्पृहः भवेत्।
उत्पत्ति-अर्थे कारणार्थे वा पञ्चमी – विभक्तेः प्रयोगः भवति । यथा—क्रोधात् सम्मोहः भवति ।
सम्मोहात् स्मृतिविभ्रमः भवति । स्मृतिभ्रंशात् बुद्धिनाशः भवति ।

error: Content is protected !!