Practicing with Deepakam Class 8 Solutions and NCERT Class 8th Sanskrit Deepakam Chapter 5 Question Answer गीता सुगीता कर्तव्या improves a student’s confidence in the subject.
Sanskrit Class 8 Chapter 5 Question Answer गीता सुगीता कर्तव्या
Class 8 Sanskrit Chapter 5 NCERT Solutions गीता सुगीता कर्तव्या
कक्षा 8 संस्कृत पाठ 5 के प्रश्न उत्तर गीता सुगीता कर्तव्या
१. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखत ।
(निम्नलिखित प्रश्नों के उत्तर एक पद में लिखिए ।)
(क) श्रद्धावान् जनः किं लभते ? …………………
(ख) कस्मात् सम्मोहः जायते ? …………………
(ग) सम्मोहात् किं जायते? …………………
(घ) अर्जुनाय गीतां कः उपदिष्टवान् ? …………………
(ङ) हर्षामर्षभयोद्वेगैः मुक्तः नरः कस्य प्रियः भवति ? …………………
उत्तर:
(क) शान्तिम्
(ख) क्रोधात्
(ग) स्मृतिविभ्रमः
(घ) श्रीकृष्णेन
(ङ) कृष्ण (भगवन्)
२. पूर्णवाक्येन उत्तरं लिखत ।
(एक वाक्य में उत्तर लिखिए।)
(क) कीदृशं वाक्यं वाङ्मयं तपः उच्यते ?
…………………………..
(ख) कीदृशः जनः स्थितधीः उच्यते ?
…………………………..
(ग) जनः कथं प्रणश्यति ?
…………………………..
(घ) जनः कथम् उत्तमां शान्तिं प्राप्नोति ?
…………………………..
(ङ) उपदेशप्राप्तये त्रयः उपायाः के भवन्ति ?
…………………………..
उत्तर:
(क) अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् – स्वाध्यायाभ्यसनं चैव वाङ्गमयं तप उच्यते ।
(ख) दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते।
(ग) बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ।
(घ) ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति।
(ङ) गीतायाः अभ्यासः सम्यक् रूपेण करणीयः, उत्तमभावेन पठितव्या, कार्यक्षेत्रे जीवनक्षेत्रे च उपदेशाः अनुपालनीया ।
![]()
३. कोष्ठके दत्तानि पदानि उपयुज्य वाक्यानि रचयत ।
(कोष्ठक में दिए गए पदों का प्रयोग करके वाक्य रचिए ।)
(सेवया, स्मृतिविभ्रमः, योगी, वाङ्यं, स्थितधीः)
(क) अनुद्वेगकरं सत्यं प्रियहितं च वाक्यं …………. तपः उच्यते।
(ख) सततं सन्तुष्टः दृढनिश्चयः च ………. भवति ।
(ग) अनुद्विग्नमनाः मुनिः ……… उच्यते।
(घ) तद् आत्मज्ञानं प्रणिपातेन परिप्रश्नेन ………… च विद्धि ।
(ङ) सम्मोहात् ………. भवति ।
उत्तर:
(क) वाङ्मयं
(ख) स्थितधीः
(ग) योगी
(घ) सेवया
(ङ) स्मृतिविभ्रमः
४. अधोलिखितानि पदानि उपयुज्य वाक्यानि रचयत ।
(निम्नलिखित पदों का प्रयोग करके वाक्य रचिए ।)
(क) उच्यते – ………………..
(ख) च – ………………..
(ग) न – ………………..
(घ) लब्ध्वा – ………………..
(ङ) कुर्यात् – ………………..
उत्तर:
(क) अनुद्वेगकरं सत्यं प्रियहितं च वाक्यं तपः वाङ्गमयं उच्यते।
(ख) सततं सन्तुष्टः दृढनिश्चयः च स्थितधीः भवति ।
(ग) रमेश जनकेन सह न गच्छति ।
(घ) ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति।
(ङ) अशुद्ध आचरणं न कुर्यात् ।
५. पाठानुसारं समुचितेन पदेन श्लोकं पूरयत।
(पाठ के अनुसार समुचित पद से श्लोक को पूरा कीजिए ।)
(क) श्रद्धावाँल्लभते ज्ञानं तत्परः …………।
(ख) ……….. ‘चैव वाङ्मयं तप उच्यते।
(ग) सन्तुष्टः सततं योगी यतात्मा …………….।
(घ) ………… भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः ।
(ङ) तद्विद्धि ………… परिप्रश्नेन सेवया ।
उत्तर:
(क) संयतेन्द्रियः
(ख) स्वाध्यायाभ्यसनं
(ग) दृढनिश्चयः
(घ) क्रोधात्
(ङ) प्रणिपातेन

६. उदाहरणानुसारं पदानि स्त्रीलिङ्गे परिवर्तयत।
(उदाहरण के अनुसार पदों को स्त्रीलिंग में परिवर्तित कीजिए ।)
उदाहरणम्-
श्रद्धावान् – श्रद्धावती
बुद्धिमान् – बुद्धिमती
(क) गुणवान् – ……………..
(ख) आयुष्मान् – ……………..
(ग) क्षमावान् – ……………..
(घ) ज्ञानवान् – ……………..
(ङ) श्रीमान् – ……………..
उत्तर:
(क) गुणवती
(ख) आयुष्मती
(ग) क्षमावती’
(घ) ज्ञानवती
(ङ) श्रीमती
![]()
७. समुचितेन पदेन सह स्तम्भौ मेलयत ।
(समुचित पदों के साथ स्तंभों को मिलाइए ।)

उत्तर:
(क) (v) सर्वेषां प्राणिनाम्
(ख) (iv) यस्य मनः विचलितं न भवति
(ग) (ii) स्थिरमतिमान्
(घ) (i) पुन: पुन: प्रश्नकरणेन
(ङ) (iii) इन्द्रिय संयमी
८. श्रीमद्भगवद्गीतायाः विषये पञ्च वाक्यानि लिखत ।
(श्रीमद्भगवद्गीता के विषय मैं पाँच वाक्य लिखिए।)
उत्तर:
(क) भगवद्गीता ग्रन्थे: श्रीकृष्ण : अर्जुनाय उपदेश: दत्तवान् ।
(ख) भगवद्गीता समस्तसंसारे विख्याताः ।
(ग) भगवद्गीता निष्कामकर्मणः उपदेशं ददाति ।
(घ) कर्मयोग: गीताया: प्रमुखः उपदेशः ददाति ।
(ङ) अस्य ग्रन्थस्य अपरं नाम कर्मयोगशास्त्रम् अपि अस्ति ।
![]()
योग्यताविस्तारः
श्रीमद्भगवद्गीता
भगवतः श्रीकृष्णस्य अर्जुनाय प्रदत्तानां जीवनमूल्यसम्बद्धानाम् उपदेशानां सङ्कलनात्मकः ग्रन्थः अस्ति श्रीमद्भगवद्गीता। महर्षिः वेदव्यासः महाभारतस्य भीष्मपर्वणि श्रीमद्भगवद्गीतां वर्णितवान् । गीतायाम् अष्टादश अध्यायाः सप्तशतं (700) श्लोकः च सन्ति ।
- अर्जुनविषादयोगः (सैन्य निरीक्षणम्)
- साङ्ख्ययोगः (गीतायाः सारः)
- कर्मयोगः (कर्मण: महत्त्वम्)
- ज्ञान-कर्म-संन्यासयोगः (दिव्यज्ञानम्)
- कर्मसंन्यासयोगः (कर्म-वैराग्य-योगः)
- आत्मसंयमयोगः (ध्यान-योगः)
- ज्ञान-विज्ञानयोगः (भगवद्ज्ञानस्य प्राप्ति:)
- अक्षर-ब्रह्मयोगः (भगवतः प्राप्तिः)
- राजविद्याराजगुह्ययोगः (परमं गुप्तं ज्ञानम्)
- विभूतियोगः (भगवत: ऐश्वर्यम्)
- विश्वरूप-दर्शनयोगः (विश्वरूपस्य दर्शनम्)
- भक्तियोगः (भक्तिभावज्ञानम्)
- क्षेत्र-क्षेत्रज्ञ-विभागयोगः (प्रकृतेः पुरुषस्य चेतनायाः च ज्ञानम्)
- गुणत्रय-विभागयोगः (प्रकृतेः गुणत्रयस्य वर्णनम्)
- पुरुषोत्तमयोगः (विश्वस्य केन्द्ररूपेण ब्रह्मणः वर्णनम्)
- दैवासुर-समद्विभागयोगः (दैवी – आसुरी -स्वभावानां वर्णनम्)
- श्रद्धात्रयविभागयोगः (श्रद्धायाः विभागानां वर्णनम्)
- मोक्ष संन्यासयोगः (उपसंहारः, संन्यास – सिद्धि-वर्णनम्)
सरसं गायामः
भगवद्गीता किञ्चिदधीता, गङ्गा-जल-लव- कणिका पीता । सकृदपि येन मुरारि समर्चा, तस्य यमः किं कुरुते चर्चाम् || कर्त्तव्यदीक्षां च समत्वशिक्षां, ज्ञानस्य भिक्षां शरणागतिञ्च । ददाति गीता करुणार्द्रता, कृष्णेन दत्ता जगतां हिताय ?
परियोजनाकार्यम्
१. कक्षायां श्रीमद्भगवद्गीतानुगुणं ‘स्थितधीः’ इति विषयम् अधिकृत्य ‘मम जीवनलक्ष्यम्’ इत्यस्मिन् विषये परिचर्चां स्थापयतु ।
२. विविध – धर्माणां धर्मग्रन्थानां नामानि विलिख्य कस्यचित् एकस्य धर्मग्रन्थस्य विवरणं लिखत ।