Class 8 Sanskrit Chapter 9 Question Answer Solutions कोऽरुक्? कोऽरुक्? कोऽरुक्?

Practicing with Deepakam Class 8 Solutions and NCERT Class 8th Sanskrit Deepakam Chapter 9 Question Answer कोऽरुक्? कोऽरुक्? कोऽरुक्? improves a student’s confidence in the subject.

Sanskrit Class 8 Chapter 9 Question Answer कोऽरुक्? कोऽरुक्? कोऽरुक्?

Class 8 Sanskrit Chapter 9 NCERT Solutions कोऽरुक्? कोऽरुक्? कोऽरुक्?

कक्षा 8 संस्कृत पाठ 9 के प्रश्न उत्तर कोऽरुक्? कोऽरुक्? कोऽरुक्?

१. अधोलिखितान् प्रश्नान् एकपदेन उत्तरत।

(निम्नलिखित प्रश्नों के उत्तर एक पद में दीजिए ।)

(क) शुकरूपं कः धृतवान् ? ……………..
(ख) धन्वन्तरिः (शुकः) कुत्र उपविश्य ध्वनिम् अकरोत् ? ……………..
(ग) अन्ते शुकः कस्य आश्रमस्य समीपं गतवान्? ……………..
(घ) ऋतवः कति सन्ति? ……………..
(ङ) वाग्भटः शुकस्य रहस्यं केभ्यः उक्तवान्? ……………..
उत्तर:
(क) धन्वन्तरिः
(ख) वृक्षोपरि:
(ग) वाग्भटस्य
(घ) षट्
(ङ) शिष्याः

२. पट्टिकातः उचितानि पदानि चित्वा रिक्तस्थानानि पूरयत ।

(पट्टिका से उचित पदों को चुनकर रिक्तस्थानों की पूर्ति कीजिए ।)

चरकस्य, कुटीरसमीपं, भारतवर्षे, आयुर्वेदज्ञानेन, अतिमात्रं

(क) ………… ‘जनाः कथं निरामयाः भवन्ति ?
(ख) अन्ते सः वैद्यस्य वाग्भटस्य ……….. गतवान् ।
(ग) तंव उत्कृष्टेन ……….. अहम् अतीव सन्तुष्टः अस्मि ।
(घ) महर्षेः ………… नाम भवन्तः श्रुतवन्तः स्युः ।
(ङ) लघुद्रव्याणि ……….. ‘सेवनेन हानिकराणि जायन्ते ।
उत्तर:
(क) भारतवर्षे
(ख) कुटीरसमीपं
(ग) आयुर्वेदज्ञानेन
(घ) चरकस्य
(ङ) अतिमात्रं

३. अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तराणि लिखत ।

(निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में लिखिए।)

(क) मधुरां वाणीं श्रुत्वा चिकित्सानिरतः वाग्भटः किम् अकरोत् ? ……………..
(ख) वाग्भटः झटिति किम् अकरोत् ? ……………..
(ग) छात्राः पुनः जिज्ञासया आचार्यं किम् अपृच्छन्? ……………..
(घ) भगवान् धन्वन्तरिः अस्माकं कृते संक्षेपेण किं प्रदत्तवान् ? ……………..
(ङ) ऋषयः नित्यं कां प्रार्थनां कुर्वन्ति ? ……………..
उत्तर:
(क) वाग्भटः प्राङ्गणम् आगत्य सर्वासु दिक्षु अपश्यत् ।
(ख) सः झटिति तस्मै विहगाय मधुराणि फलानि समर्पितवान्।
(ग) आचार्ये! हितभुगादिविषये वयं तु ज्ञातवन्त:, किन्तु किं सः शुकः सन्तुष्टः अभवत्?
(घ) “व्यायामः प्रातरुत्थाय नित्यं दन्तविशोधनम् । स्वच्छजलेन सुस्नानं, बुभुक्षायाञ्च भोजनम् ।”
(ङ) “सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत्।”

Class 8 Sanskrit Chapter 9 Question Answer Solutions कोऽरुक्? कोऽरुक्? कोऽरुक्?

४. पाठात् यथोचितानि विशेषणपदानि विशेष्यपदानि वा चित्वा रिक्तस्थानानि पूरयत।

(पाठ से उपयुक्त विशेषण पदों अथवा विशेष्य पदों को चुनकर रिक्तस्थानों की पूर्ति कीजिए ।)
Class 8 Sanskrit Chapter 9 Question Answer Solutions कोऽरुक् कोऽरुक् कोऽरुक् 2
उत्तर:
Class 8 Sanskrit Chapter 9 Question Answer Solutions कोऽरुक् कोऽरुक् कोऽरुक् 6

५. पाठं पठित्वा अधोलिखितपट्टिकातः पदानि चित्वा उचितसञ्चिकायां पूरयत ।

(पाठ को पढ़कर निम्नलिखित पट्टिका से पद चुनकर उचित सारणी को पूरा कीजिए ।)

लौकिकः, व्याधीनाम्, देवः, वृक्षे, त्रीणि, उत्तमस्य, वाणीम्, विस्मितः, मधुरया, प्रश्नान्, पूज्यः, खगः, विशाले, शुकम्, वाग्भटः,

Class 8 Sanskrit Chapter 9 Question Answer Solutions कोऽरुक् कोऽरुक् कोऽरुक् 4
उत्तर:
Class 8 Sanskrit Chapter 9 Question Answer Solutions कोऽरुक् कोऽरुक् कोऽरुक् 8

६. अधोलिखितानि वाक्यानि पठित्वा तेन सम्बद्धं श्लोकं पाठात् चित्वा लिखत ।

(निम्नलिखित वाक्यों को पढ़कर उनसे संबंधित श्लोक पाठ से चुनकर लिखिए।)

(क) अस्माभिः नित्यं व्यायामः, स्नानं, दन्तधावनं, बुभुक्षायाञ्च भोजनं कर्तव्यम्।
(ख) अस्माभिः हितकरः आहारः सेवनीयः येन विकाराणां शमनं स्वास्थ्यस्य च रक्षणं भवेत् ।
(ग) ऋतोः अनुसारं भोजनेन बलस्य वर्णस्य च अभिवृद्धिः भवति ।
उत्तर:
(क) व्यायामः प्रातरुत्थाय नित्यं दन्तविशो धनम् ।
स्वच्छजलेन सुस्नानं, बुभुक्षायाञ्च भोजनम्।

(ख) तच्च नित्यं प्रयुञ्जीत स्वास्थ्यं येनानुवर्तते ।
अजातानां विकाराणामनुत्पत्तिकरं च यत् ।

(ग) तस्याशिताद्यादाहारात् बलं वर्णश्च वर्धते ।
तस्यर्तुसात्म्यं विदितं चेष्टाहारव्यपाश्रयम्।

योग्यताविस्तारः

1. श्लोकानां पदच्छेदः अन्वयः च-

तच्च नित्यं प्रयुञ्जीत, स्वास्थ्यं येनानुवर्तते।
अजातानां विकाराणामनुत्पत्तिकरं च यत् ।।1।।

पदच्छेदः – तत् च नित्यम् प्रयुञ्जीत स्वास्थ्यम् येन अनुवर्तते, अजातानाम् विकाराणाम् अनुत्पत्तिकरम् च यत्।
अन्वयः – अजातानां विकाराणां च यत् अनुत्पत्तिकरं, येन स्वास्थ्यम् अनुवर्तते च तत् नित्यं प्रयुञ्जीत ।

भावार्थ: – अर्थात् यस्य आहारस्य सेवनेन स्वास्थ्यस्य रक्षणं भवेत्, न जातानाम् अर्थात् अनुत्यपन्नानां विकाराणाम् उत्पत्तिः न भवेत्, तादृशः आहारः सेवनीयः।

अल्पादाने गुरूणां च लघूनां चातिसेवने ।
मात्राकारणमुद्दिष्टं द्रव्याणां गुरुलाघवे  || 2 ||

पदच्छेदः – अल्पादाने गुरूणाम् च लघूनाम् च अतिसेवने मात्राकारणम् उद्दिष्टम् द्रव्याणाम् गुरुलाघवे ।
अन्वयः – गुरूणाम् (द्रव्याणाम्) अल्पादाने (हितं भवति) लघूनां (द्रव्याणां च अतिसेवने (हानिः भवति) । गुरुलाघवे (भोजनग्रहणे) द्रव्याणां मात्रा कारणम् उद्दिष्टम् (अस्ति)।

भावार्थः – अर्थात् गरिष्ठद्रव्याणि अपि अल्पमात्रं सेवनेन सुपाच्यानि भवन्ति, लघुद्रव्याणि च अतिमात्रं सेवनेन हानिकराणि जायन्ते । अतः मात्रानुसारम् एव खादितव्यम् ।

तस्याशिताद्यादाहारात् बलं वर्णश्च वर्धते।
तस्यर्तुसात्म्यं विदितम् चेष्टाहारव्यपाश्रयम् ।।3।।

पदच्छेदः – तस्य अशिताद्यात् आहारात् बलम् वर्णः च वर्धते, तस्य ऋतुसात्म्यम् विदितम्, चेष्टा – आहार-व्यपाश्रयम् ।
अन्वयः – तस्य (जनस्य) अशिताद्यात् आहारात् बलं वर्णः च वर्धते। तस्य चेष्टा आहारव्यपाश्रयम् ऋतुसात्म्यं विदितम् (भोक्तव्यम्) । भावार्थः वसन्तः, ग्रीष्मः, वर्षा, शरद्, हेमन्तः शिशिरः, चेति षट् ऋतवः भवन्ति। यः पुरुषः ऋतूनाम् अनुकूलं स्वास्थ्यप्रदम् आहारसेवनं जानाति, तदनुसारं च आचरणं करोति, तस्य जनस्य अशितम् अर्थात् भुक्तं पीतं च सर्वमपि बलवर्धकं, वर्णकान्तिजनकं, सुखवर्धकम् आयुर्वर्धकञ्च भवति । अतः ऋतोः अनुसारं भोक्तव्यम् इति। नियमित-भावेन समयानुसारं सात्त्विक भोजनम् आवश्यकम् इति ऋतुभुक् इति पदस्य भावः

व्यायामः प्रातरुत्थाय नित्यं दन्तविशोधनम्।
स्वच्छजलेन सुस्नानं, बुभुक्षायाञ्च भोजनम् ॥4॥

पदच्छेदः – व्यायामः प्रातः उत्थाय नित्यम् दन्तविशोधनम् स्वच्छजलेन सुस्नानम् बुभुक्षायाम् च भोजनम्।
अन्वयः – नित्यं प्रातः उत्थाय व्यायामः करणीयः) दन्तविशोधनं (कर्त्तव्यम्) स्वच्छजलेन सुस्नानं (कार्यम्) बुभुक्षायां (जातायां) भोजनं च (कर्त्तव्यम्) ।

भावार्थ: – प्रतिदिनं प्रातः एव जागरणं कुर्यात्, ततः परं व्यायामः करणीयः । पुनः सम्यक्तया दन्तमार्जनं करणीयम्। स्वच्छजलेन उत्तमरीत्या स्नानं कर्त्तव्यम् । यदा उदरे बुभुक्षा भवति तदा एव हितकरं स्वल्पं तथा ऋत्वनुकूलं भोजनं ग्रहणीयम् ।

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत्  ||5||

पदच्छेदः – सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग् भवेत् ।
अन्वयः – सर्वे सुखिनः भवन्तु, सर्वे निरामयाः सन्तु । सर्वे भद्राणि पश्यन्तु, कश्चिद् दुःखभाग् मा भवेत् ।

भावार्थ: – संसारे सर्वे सुखेन निवसेयुः, ते नीरोगिणः च भवेयुः । ते परस्परं समभावेन उत्तमविचारैः च विचारयेयुः । तेषां कल्याणं भवेत्। कश्चिद् अपि जनः कदापि दुःखं न प्राप्नुयात् । वस्तुतः सर्वे नियमित-हितकर-भोजनेन रोगमुक्ताः भवेयुः ।

2. चरकसंहितायाः परिचयः
महर्षिः चरकः चरकसंहिताग्रन्थं रचितवान् । चरकसंहिता इति आयुर्वेदस्य प्रमुखः ग्रन्थः अस्ति । अस्मिन् ग्रन्थे ‘सूत्रस्थानं, निदानस्थानं, विमानस्थानं, शरीरस्थानम्, इन्द्रियस्थानं, चिकित्सास्थानं, कल्पस्थानं सिद्धिस्थानं’ चेति अष्टस्थानानि सन्ति । अत्र न केवलं रोगाणां चिकित्सा एव वर्णिता, अपितु स्वास्थ्यस्य संरक्षणार्थम् आयुषः च संवर्धनार्थम् उपायाः अपि निर्दिष्टाः ।

Class 8 Sanskrit Chapter 9 Question Answer Solutions कोऽरुक्? कोऽरुक्? कोऽरुक्?

3. आहारपरिचयः
सात्त्विकः आहारः
आयुः सत्त्वबलारोग्यसुखप्रीतिविवर्धनाः ।
रस्याः स्निग्धाः स्थिरा हृद्याः आहाराः सात्त्विकप्रियाः ।। (श्रीमद्भगवद्गीता 17/8)

भावार्थ: – खाद्यं विना जीवनधारणं सम्भवं नास्ति । भगवता प्रदत्तं शरीरम् आहारेण पुष्टं भूत्वा कर्मकरणाय समर्थं स्यात् । मानवस्य कृते ये सात्त्विकाहाराः भवन्ति, ते श्लोकेऽस्मिन् प्रदत्ताः । ये आहाराः आयुषः वर्द्धकाः, बुद्धिप्रदायकाः, बलकारकाः, आरोग्यप्रदाः, सुखदाः, प्रीतिगुणयुक्ताः, रसयुक्ताः, स्निग्धगुणपरिपूर्णाः, खाद्यसारपरिपूरिताः च ते आहाराः स्वभावतः सात्त्विकजनानां प्रियाः भवन्ति । अतः आरोग्यार्थं सात्त्विकः आहारः सेवनीयः ।

राजसिकः आहारः
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥ (श्रीमद्भगवद्गीता 17/9)

भावार्थ: – अतिकटुः, अत्यम्लः, अतिलवण:, अत्युष्णः, अतितीक्ष्णः, अतिरूक्षः, अतिविदाही च आहारः राजसजनानां प्रियः भवति । एतस्य आहारस्य सेवनेन अनेके व्याधयः भवन्ति । एतस्य सेवनेन मनुष्यः दुःखं शोकं च प्राप्नोति । अतः हितम् इच्छन् छात्रः कदापि एतस्य आहारस्य सेवनं न कुर्यात।

तामसिकः आहार:
यातयामं गतरसं पूतिं पर्युषितं च यत् ।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्।। (श्रीमद्भगवद्गीता 17/10)

भावार्थ: – एकप्रहरात् पूर्वं निर्मितं भोजनम्, अर्धसिक्तं खाद्यम्, अग्निदग्धं भोजनम्, आतपशुष्कम् अन्नाम्, ऋतौ गते रसहीनं फलं, पलाण्डु-लशुनादीनि दुर्गन्धपूर्णानि भोजनानि, पूर्वदिवसस्य अवशिष्टं खाद्यम्, उच्छिष्टं खाद्यं, मांस- अण्डकादीनि अमेध्यभोजनानि तथा च तामस-गुण- युक्तानि द्रव्याणि तामसपुरुषाणां प्रियतराणि भवन्ति । एतैः भोज्यद्रव्यैः ते प्रीताः आनन्दिताः च भवन्ति । तामसिक भोजनेन निद्रा तन्द्रा, आलस्यं च वर्धन्ते । अतः विद्यार्थिभिः एतानि त्यक्तव्यानि ।

4. काश्चन आहारविषयकसूक्तयः

  • भोजनं परमेशस्य, भक्तये जीवनाय च ।
    त्वं तु मूर्ख विजानासि भोजनार्थं हि जीवनम् ? (सुमनोवाटिका)
  • अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् ।
    अपुण्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत् ? ( मनुस्मृति: 2 / 57)
  • मिताहारो नरः सोढुं शक्तः कष्ट – शतं सुखम्।
    अनभ्यस्तो हि कष्टानामध्यशनो विपद्यते ।। (सुमनोवाटिका)
  • अशीतेनाम्भसा स्नानं कवोष्णदुग्धसेवनम् ।
    एतद् वो मानुषाः पथ्यं स्निग्धमुष्णं च भोजनम्।। (भोजप्रबन्ध:)

परियोजनाकार्यम्

१. विद्यालयस्य परिसरे विद्यमानानां पञ्चवृक्षाणां नामानि तेषाम् औषधीयं प्रयोगं च लिखत ।
२. स्वास्थ्येन सम्बद्धानां दशश्लोकानां संग्रहणं कुरुत ।
३. पाठे आगतान् श्लोकान् कण्ठस्थीकृत्य कक्षायां श्रावयत।

error: Content is protected !!