अपठित-अवबोधनम् MCQ Questions with Answers Class 10 Sanskrit

Students who are searching for NCERT MCQ Questions for Class 10 Sanskrit Grammar अपठित-अवबोधनम् with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 10 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the अपठित गद्यांश Class 10 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these अपठित-अवबोधनम् objective questions.

MCQ Questions for Class 10 Sanskrit Grammar अपठित-अवबोधनम् with Answers

निम्नलिखित गद्यांशों पर आधारित प्रश्नोत्तरों को ध्यान से पढ़िए।

(1)

दीपावली प्राचीनतमं पर्व। अस्मिन् दिने सर्वाधिकम् आकर्षकं मनोरञ्जञ्च भवति स्फोटकानाम् आस्फोटनम्। विचित्राणि वर्णयुक्तानि स्फोटकानि आकाशे भूमौ च विविधरूपाणि दर्शयन्ति। जनाः तानि दृष्ट्वा तुष्यन्ति। परन्तु अति सर्वत्र वर्जयेत्। रात्रौ आस्फोटकानां शब्दः कर्णौ बधिरीकरोति वायुमण्डलं च दूषयति। पूर्वं जनसंख्या सीमिता आसीत्। वृक्षाः वायुं शुद्धं कुर्वन्ति स्म। इदानीम् जनसंख्या प्रवृद्धा, वृक्षसंख्या क्षीणा। विस्फोटकेभ्यः निर्गतः धूमः रुग्णान् पीडयति, नवजातशिशुभ्यः हानिकरः सिध्यति। दीपावली-समये शरदि आकाशः निर्मलः भवति। सर्वत्र पवित्रता विराजते। अतः वयम् आनन्देन दीपावलीम् मानयेम, वसुन्धरां भूषितां कुर्याम न तु दूषिताम्। सर्वेषां जीवन सुखमयं भवेत्। किं तेन उत्सवेन यः कस्मैचित् अपि कष्टकर: भवेत्? ‘मा कश्चिद् दुःखभाग भवेत्’ इति अस्माकम् आदर्शः।

Question 1.
‘प्रवृद्धा’ इत्यस्य किं विलोमपदम् अत्र प्रयुक्तम्?
(क) सीमिता
(ख) निर्गतः
(ग) क्षीणा
(घ) पवित्रता

Answer

Answer: (ग) क्षीणा


Question 2.
‘पर्व’ इत्यस्य किं विशेषणम् अत्र प्रयुक्तम्?
(क) प्राचीनतमम्
(ख) आकर्षकम्
(ग) मनोहरम्
(घ) शुद्धम्

Answer

Answer: (क) प्राचीनतमम्


Question 3.
‘लाभकरः’ इत्यस्य किं विपर्ययपदं प्रयुक्तम्?
(क) निर्गतः
(ख) कष्टकर:
(ग) आदर्श:
(घ) हानिकरः

Answer

Answer: (घ) हानिकरः


Question 4.
‘सर्वत्र पवित्रता विराजते’ अत्र क्रियापदं किम्?
(क) सर्वत्र
(ख) विराजते
(ग) पवित्रता
(घ) पवित्रताम्

Answer

Answer: (ख) विराजते


Question 5.
केषाम् आस्फोटनम् सर्वेभ्यः आकर्षकम् मनोरञ्जकम् च?

Answer

Answer: स्फोटकानाम्


Question 6.
दीपावली कस्यां ऋतौ भवति?

Answer

Answer: शरदि


Question 7.
दीपावली कीदृशं पर्व अस्ति?

Answer

Answer: प्राचीनतमम्


Question 8.
अस्माकं कः आदर्शः?

Answer

Answer: ‘मा कश्चिद् दुःखभाग् भवेत्’ इति अस्माकम् आदर्शः।


Question 9.
स्फोटकानां धूमः कान् पीडयति?

Answer

Answer: स्फोटकानां धूमः रुग्णान् पीडयति।


Question 10.
वयं दीपावलीम् कथं मानयेम?

Answer

Answer: वयम् आनन्देन दीपावलीम् मानयेम, वसुन्धरां भूषितां कुर्याम न तु दूषिताम्।


Question 11.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।

Answer

Answer: दीपावल्याः पर्यावरणे प्रभावः / अति सर्वत्र वर्जयेत् / वयं दीपावली कथं मानयेम / दीपावली महापर्व।


(2)

तक्षकः तं सकौतूहलं पृष्टवान् “भोः! भवान् केन वा उद्देश्येन राजधानीं गच्छति? तत्र तु इदानीं महती विशृङ्खला वर्तते। श्वः तक्षक : नाम विषधरः सर्पः महाराजं दक्ष्यति इति श्रूयते। अतः तत्र सुरक्षा व्यवस्था दृढ़तरा सञ्जाता। कोऽपि महाराज्ञः समीप गन्तुं तं द्रष्टुं वा न अनुमन्यते” इति।

“एतत् सर्वं ज्ञायते मया। किन्तु अहं मृतसञ्जीवनी विद्यां जानामि। तक्षक: यदि राजानं दशेत् तर्हि अहमेव तस्मै पुनर्जीवनं प्रदातुं शक्नोमि इति मन्ये। तदर्थमेव तत्र गच्छामि” इति धन्वन्तरिः सस्पृहम् अवदत्। तच्छ्रुत्वा छद्मवेषी तक्षकः शंकितोऽभवत्। ‘यदि सत्यमेव धन्वन्तरिः राजानं मरणाद् रक्षेत्, तर्हि मुनिवचनस्य अन्यथा गतिः भवेत्, ततः मुनेरपि अवमाननं स्यात्’ इति विचिन्त्य सः धन्वन्तरि बहुधा अबोधयत- “भोः, तक्षकस्य विषम् अतिभीषणम् अस्ति। तक्षक-दंशमात्रेण प्राणी भस्मीभविष्यति। अतः तस्य राज्ञः समीपं गमनेन प्रयोजनमेव नास्ति।”

Question 1.
अनुच्छेदे ‘चिन्तयित्वा’ इति पदस्य कः पर्यायः आगतः?
(क) सस्पृहम्
(ख) अन्यथा
(ग) विचार्य
(घ) विचिन्त्य

Answer

Answer: (घ) विचिन्त्य


Question 2.
‘ह्यः’ इति पदस्य कः विपर्ययः अत्र लिखितः?
(क) श्वः
(ख) तर्हि
(ग) अतः
(घ) अन्यथा

Answer

Answer: (क) श्वः


Question 3.
‘एतत् सर्वं ज्ञायते मया’। अस्मिन् वाक्ये क्रियापदं किम्?
(क) मया
(ख) सर्वम्
(ग) ज्ञायते
(घ) एतत्

Answer

Answer: (ग) ज्ञायते


Question 4.
‘विषम् अतिभीषणम्’ अनयोः पदयोः विशेषणपदं किम्?
(क) विषम्
(ख) अतिभीषणम्
(ग) अति
(घ) भीषणम्

Answer

Answer: (ख) अतिभीषणम्


Question 5.
कः तक्षक सस्पृहम् अवदत्?

Answer

Answer: धन्वन्तरिः


Question 6.
कः धनवन्तरि बहुधा अबोधयत्?

Answer

Answer: सः


Question 7.
तक्षकः तं कथं पृष्टवान्?

Answer

Answer: सकौतूहलम्


Question 8.
धन्वन्तरिः छद्मवेशं तक्षक सस्पृहं किम् अवदत्?

Answer

Answer: धन्वन्तरिः छद्मवेशं तक्षकं सस्पृहम् अवदत्-“एतत् सर्वं ज्ञायते मया। किन्तु अहं मृतसञ्जीवनीविद्यां जानामि। तक्षक: यदि राजानं दशेत् तर्हि अहमेव तस्मै पुनर्जीवनं प्रदातुं शक्नोमि इति मन्ये। तदर्थमेव तत्र गच्छामि।”


Question 9.
किं विचिन्त्य तक्षकः धन्वन्तरि बहुधा अबोधयत्?

Answer

Answer: ‘यदि सत्यमेव धन्वन्तरिः राजानं मरणाद् रक्षेत् तर्हि मुनिवचनस्य अन्यथा गतिः भवेत्, ततः मुनेरपि अवमाननं स्यात्’ इति विचिन्त्य तक्षकः धन्वन्तरिं बहुधा अबोधयत्।


Question 10.
तच्छ्रुत्वा कः शंकितोऽभवत्?

Answer

Answer: तच्छ्रुत्वा छद्मवेषी तक्षकः शंकितो ऽभवत्।


Question 11.
उपरिलिखिताय अनुच्छेदाय समुचितं शीर्षकं लिखत।

Answer

Answer: मुनेः शापस्य गतिः। धन्वन्तरिः महावैद्यः।


(3)

‘रामायणम् इतिहासः, न तु पुराणम्’ इति हि भारतीया श्रद्धा। या घटना प्रवृत्ता तां विवृणोति इतिहासः। किन्तु पुराणं तथा न। भक्तिश्रद्धादीनाम् उत्पादनाय कथा कल्पते तत्र। पुराणेषु अपि क्वचित् ऐतिहासिकाः अंशाः समाविष्टाः भवन्ति इति तु अन्यद् एतत्। इतिहासग्रन्थे तु यत् वर्ण्यते तत् समग्रं वास्तविकं भवति। वर्णनादिषु कविकल्पना स्यात् चेदपि वृत्तं तु वास्तविकमेव। रामायणमहाभारतयोः ऐतिहासिकताविषये पारम्परिकाणां न सन्देहः कदापि। किन्तु आधुनिकाः इतिहासपुराणयोः भेदस्य अवगमने (ज्ञातुम्) असमर्थाः सन्ति। येन कथा वर्ण्यते विस्तरेण, सः सर्वोऽपि ग्रन्थराशिः पुराणतुल्यः एव इति तेषां मतम् अस्ति। अतः ते रामायणस्य ऐतिहासिकताविषये प्रमाणम् अपेक्षन्ते। तद्विषये मान्येन पुष्कर भटनागर वर्येण कश्चन सफलः प्रयासः कृतः अस्ति। आधुनिकं तन्त्रांशम् (Software) उपयुज्य सः रामायणे वर्णिताः खगोलीयघटनाः वास्तविकाः एव इति सप्रमाणं निरूपितवान् अस्ति।

Question 1.
‘आधुनिकं तन्त्रांशम्’। अनयोः पदयोः विशेष्यपदं किम्?
(क) आधुनिकम्
(ख) तन्त्रांशम्
(ग) तन्त्रांशः
(घ) आधुनिकः

Answer

Answer: (ख) तन्त्रांशम्


Question 2.
अनुच्छेदे ‘कल्पते’ इति क्रियायाः कर्तृपदं किम्?
(क) उत्पादनाय
(ख) भक्तिश्रद्धादीनाम्
(ग) तत्र
(घ) कथा

Answer

Answer: (घ) कथा


Question 3.
‘या घटना प्रवृत्ता’ अत्र क्रियापदं किम्?
(क) या
(ख) घटना
(ग) प्रवृत्ता
(घ) घटनाः

Answer

Answer: (ग) प्रवृत्ता


Question 4.
अनुच्छेदे ‘असफलः’ इति पदस्य कः विपर्ययः आगतः?
(क) प्रयासः
(ख) सफल:
(ग) कृतः
(घ) सन्देहः

Answer

Answer: (ख) सफल:


Question 5.
रामायणम् किम्?

Answer

Answer: इतिहासः


Question 6.
या घटना प्रवृत्ता तां कः विवृणोति?

Answer

Answer: इतिहासः


Question 7.
पुराणेषु क्वचित् कीदृशाः अंशाः समाविष्टाः भवन्ति?

Answer

Answer: ऐतिहासिकाः


Question 8.
किन्तु आधुनिकाः कस्मिन् असमर्थाः सन्ति?

Answer

Answer: किन्तु आधुनिकाः इतिहासपुराणयोः भेदस्य अवगमने (ज्ञातुम्) असमर्थाः सन्ति।


Question 9.
पुराणेषु का कल्पते?

Answer

Answer: पुराणेषु भक्तिश्रद्धादीनाम् उत्पादनाय कथा कल्पते।


Question 10.
कुत्र कदापि पारम्परिकाणां न सन्देहः?

Answer

Answer: रामायणमहाभारतयोः ऐतिहासिकताविषये पारम्परिकाणां न सन्देहः कदापि।


Question 11.
उपरिलिखितस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।

Answer

Answer: ऐतिहासिकं काव्यं रामायणम्।


(4)

कश्चन बालकः आसीत्। तस्य पिता नितरां निर्धनः आसीत्। बालकः अध्ययनं कर्तुम् इच्छति स्म। किन्तु यस्मिन् गृहे उदरपूर्ति-समस्यायाः एव उत्तरं न स्यात् तत्र तस्य अध्ययनाय व्यवस्था कथं भवेत्? अतः बालक: विद्यालयं गच्छतः स्वसम वयस्कान् बालकान् दृष्ट्वा निश्श्वसिति स्म। सः स्नेहपरः मृदुभाषी, उत्साहमूर्तिः च आसीत्। पित्रा सह कार्यं कुर्वन् स: बहूनां बालानां मैत्री सम्पादितवान्। ते बालाः तम् अक्षराणि अपाठयन्। अक्षराभ्यासं कृत्वा अन्यैः उपयुक्तपूर्वाणि पुस्तकानि पठन् शब्दज्ञानादिकं प्राप्तवान् सः। ‘पुत्रः विद्यालयं प्रति प्रेषणीयः’ इति पितुः अपि तीव्र इच्छा आसीत्। किन्तु निर्धनता जन्या असहायकता तं बाधते स्म। अधिक धनसम्पादनस्य आशया सः कदाचित् पुत्रेण सह कलकत्ता नगरं प्रति प्रस्थितवान्। रेलयानेन गमनाय धनं नासीत् अतः तौ पादाभ्याम् एव प्रस्थितवन्तौ।

Question 1.
‘कश्चन बालकः आसीत्। अत्र कर्तृपदं किम् अस्ति?
(क) कश्चन
(ख) कः
(ग) बालकः
(घ) आसीत्

Answer

Answer: (ग) बालकः


Question 2.
‘सः स्नेहपरः, मृदुभाषी, उत्साहमूर्तिः च आसीत्।’ अस्मिन् वाक्ये क्रियापदं किम्?
(क) सः
(ख) आसीत्
(ग) स्नेहपरः
(घ) मृदुभाषी

Answer

Answer: (ख) आसीत्


Question 3.
‘तस्य पिता नितरां निर्धनः आसीत्।’ अस्मिन् वाक्ये ‘पिता’ पदस्य किं विशेषणम् आगतम्?
(क) नितरां
(ख) निर्धनः
(ग) तस्य
(घ) आसीत्

Answer

Answer: (ख) निर्धनः


Question 4.
अनुच्छेदे “धनहीनः” पदस्य कः पर्यायः आगत?
(क) अधनः
(ख) सधनः
(ग) निर्धनः
(घ) निर्धनता

Answer

Answer: (ग) निर्धनः


Question 5.
बालकस्य पिता कीदृशः आसीत्?

Answer

Answer: निर्धनः


Question 6.
तौ कथमेव प्रस्थितवन्तौ?

Answer

Answer: पादाभ्याम्


Question 7.
बालकस्य गृहे कस्याः समाधानं न आसीत्?

Answer

Answer: उदरपूर्ति-समस्यायाः


Question 8.
सः बालकः कथं निश्श्वसिति स्म?

Answer

Answer: सः बालक: विद्यालयं गच्छतः स्वसमवयस्कान् बालकान् दृष्ट्वा निश्श्वसिति स्म।


Question 9.
सः कीदृशः आसीत्?

Answer

Answer: सः स्नेहपरः, मृदुभाषी उत्साहमूर्तिः च आसीत्।


Question 10.
सः कथं शब्दज्ञानिदिकं प्राप्तवान्?

Answer

Answer: अक्षराभ्यासं कृत्वा अन्यैः उपयुक्तपूर्वाणि पुस्तकानि पठन् शब्दज्ञानादिकं प्राप्तवान् सः।


Question 11.
उपरिलिखितस्य अनुच्छेदस्य कृते उचितं शीर्षकं लिखत।

Answer

Answer: विद्याप्रेमिणौ पितापुत्रौ।


(5)

संस्कृतं नाम भारतम्। संस्कृतं नाम भगवद्गीता। संस्कृतं नाम वेदाः रामायणं महाभारतं वा। संस्कृतं हि भारतस्य आत्मा वर्तते। सा भारतस्य आउत्तरात् दक्षिणान्तं, आपूर्वस्मात् पश्चिमान्तं च ऐक्यसाधिकाशक्तिः अस्ति। संस्कृतस्य स्मरणात् पञ्चाङ्गं स्मर्यते, तत्रत्याः तिथयः नक्षत्राणि च अपि स्मर्यन्ते, यासाम् आधारेण एव सर्वैः अपि भारतीयैः पर्वाणि, कुम्भ-मेलकं, होलिकोत्सवः, दीपावली, दुर्गापूजा, रक्षाबन्धनम् इत्यादीनि आचर्यन्ते। गुरुः गोविन्द सिंहः स्वीयान् श्रेष्ठान् सिक्खपण्डितान् काशी प्रति प्रेषितवान् आसीत्-संस्कृतम् अधीयताम् इति आदिश्य। ते च योद्धाः, पण्डिताः क्रान्तिकारिणः च ‘नामधारिणः’ इति विख्याताः आसन्। संस्कृतं भारतात् अपसारितं चेत् तेनेदं नाम एव अस्माकं शरणं स्यात्। आजन्मनः मरणपर्यन्तं संस्कृतस्य अवलम्बनम् अपरिहार्यम् एव अस्माकम्।

Question 1.
‘ऐक्यसाधिका शक्तिः’ अनयोः पदयोः विशेषणपदं किम्?
(क) शक्तिः
(ख) ऐक्यसाधिका
(ग) साधिका
(घ) ऐक्यम्

Answer

Answer: (ख) ऐक्यसाधिका


Question 2.
‘प्रेषितवान् आसीत्’ इति क्रियायाः कर्तृपदं किम् वर्तते अनुच्छेदे?
(क) गुरुः गोविन्दसिंहः
(ख) गुरुः
(ग) गोविंद सिंहः
(घ) काशीम्

Answer

Answer: (क) गुरुः गोविन्दसिंहः


Question 3.
‘अवलम्बनम् अपरिहार्यम् एव अस्माकम्।’ अत्र ‘अस्माकम्’ पदं केभ्यः प्रयुक्तम्?
(क) भारतीय
(ख) भारतीयाय
(ग) भारतीयेभ्यः
(घ) जनेभ्यः

Answer

Answer: (ग) भारतीयेभ्यः


Question 4.
अनुच्छेदे ‘विद्वांसः’ पदस्य कः पर्यायः आगतः?
(क) योद्धाः
(ख) शिष्याः
(ग) क्रान्तिकारिणः
(घ) पण्डिताः

Answer

Answer: (घ) पण्डिताः


Question 5.
भगवद्गीता कस्यां भाषायां वर्तते?

Answer

Answer: संस्कृतभाषायाम्


Question 6.
संस्कृतस्य समरणात् किं स्मर्यते?

Answer

Answer: पञ्चाङ्गम्


Question 7.
के “नामधारिणः’ इति विख्याताः सन्ति?

Answer

Answer: पण्डिताः


Question 8.
गुरुः गोविन्द सिंहः कान् काशी प्रति प्रेषितवान् आसीत्?

Answer

Answer: गुरुः गोविन्द सिंहः स्वीयान् श्रेष्ठान् सिक्खपण्डितान् काशी प्रति प्रेषितवान् आसीत्।


Question 9.
संस्कृतं भारतात् अपसारितं चेत् कि भविष्यति?

Answer

Answer: संस्कृतं भारतात् अपसारितं चेत् तेनेदं नाम एव अस्माकं शरणं स्यात् इति।


Question 10.
अस्माकं कस्य अवलम्बनम् अपरिहार्यम् एव?

Answer

Answer: अस्माकम् आजन्मनः मरणपर्यन्तं संस्कृतस्य अवलम्बनम् अपरिहार्यम् एव।


Question 11.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।

Answer

Answer: संस्कृतभाषायाः महत्त्वम्।


(6)

षट् कारणानि श्रियं विनाशयन्ति। प्रथमं कारणमस्ति असत्यम्। यः नरः असत्यं वदति, तस्य कोऽपि जनः विश्वासं न करोति। उक्तञ्च–’सत्यं ब्रूयात्, प्रियं ब्रूयात्, न ब्रूयात् सत्यमप्रियम्।’ निष्ठुरता अस्ति द्वितीयं कारणम्। कदापि केनापि सह निष्ठुरता (निर्दयता) न उचिता। सदैव जगति सर्वैः सह करुणा, दया नम्रता च करणीयाः। तृतीयं कारणम् अस्ति कृतघ्नता। जीवने अनेके जनाः अस्मान् उपकुर्वन्ति। प्रायः जनाः उपकारिणं विस्मरन्ति, प्रत्युपकारं न कुर्वन्ति। एतादृशः स्वभावः कृतघ्नता इति उच्यते। आलस्यम् अपरः महान् दोषः, ‘आलस्यं हि मनुष्याणां शरीरस्थः महारिपुः’। अहङ्कारः मनुष्यस्य मतिं नाशयति। अहङ्कारी मनुष्यः सर्वदा आत्मप्रशंसाम् एव करोति। न कदापि कस्यचित् उपकारं करोति। व्यसनानि अपि श्रियं हरन्ति। ये मद्यपानं कुर्वन्ति तेषाम् आत्मिकबलम्, बुद्धिबलं शारीरिकबलं च नश्यन्ति। अतः बुद्धिमान् एतान् दोषान् सर्वथा त्यजेत्।

Question 1.
‘नाशयति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) अहङ्कारः
(ख) गर्वम्
(ग) धनम्
(घ) बलम्

Answer

Answer: (क) अहङ्कारः


Question 2.
स्मरन्ति’ इति क्रियापदस्य किं विपर्ययपदम् अत्र प्रयुक्तम्?
(क) उपकुर्वन्ति
(ख) अनुस्मरन्ति
(ग) विस्मरन्ति
(घ) कुर्वन्ति

Answer

Answer: (ग) विस्मरन्ति


Question 3.
‘षट्’ इति पदं कस्य विशेषणम्?
(क) कारणस्य
(ख) कारणाम्
(ग) अहङ्कारस्य
(घ) श्रियस्य

Answer

Answer: (क) कारणस्य


Question 4.
अनुच्छेदे ‘बुद्धिम्’ इति पदस्य कः पर्यायः आगतः?
(क) मतिम्
(ख) कृतज्ञेता
(ग) निष्ठुरता
(घ) विषम्

Answer

Answer: (क) मतिम्


Question 5.
कीदृशं सत्यं न ब्रूयात्?

Answer

Answer: अप्रियम्


Question 6.
मनुष्याणां शरीरस्थ: महारिपुः कः?

Answer

Answer: आलस्यम्


Question 7.
द्वितीयं कारणं किमस्ति?

Answer

Answer: निष्ठुरता


Question 8.
अहङ्कारी मनुष्यः किं करोति?

Answer

Answer: अहङ्कारी मनुष्यः सर्वदा आत्मप्रशंसाम् एव करोति। न कदापि कस्यचित् उपकारं करोति।


Question 9.
तृतीयं कारणं किम् उच्यते?

Answer

Answer: तृतीयं कारणं कृतघ्नता उच्यते।


Question 10.
किम् उक्तम्?

Answer

Answer: उक्तञ्च–’सत्यं ब्रूयात्, प्रियं ब्रूयात्, न ब्रूयात् सत्यमप्रियम्।’


Question 11.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।

Answer

Answer: मनुष्याणां षड्दोषाः।


(7)

एकदा शरीरस्य सर्वाणि इन्द्रियाणि-हस्तौ, पादौ, मुखं, नासिका, कर्णी इत्यादीनि मिलित्वा अचिन्तयन्-“वयं सर्वे प्रतिदिनं परिश्रमं कुर्मः। एतद् उदरं सर्वं स्वीकरोति, स्वयं किमपि कार्यं न करोति। अद्यप्रभृति वयमपि कार्यं न करिष्यामः”। एवं चिन्तयित्वा सर्वाणि अङ्गानि कार्यम् अत्यजन्। पादौ स्थिरौ भूत्वा अतिष्ठताम्। हस्तौ निश्चलौ अभवताम्। मुखं अन्नकणम् अपि न प्रावेशयत् एवं द्वे दिने व्यतीते जाते। शनैः शनैः सर्वाणि अङ्गानि शिथिलानि अभवन्। कार्यशक्तिः क्षीणा अभवत्। कथमपि पुनः मिलित्वा विचारम् अकुर्वन् “अहो! अस्माकं प्रमादः। भुक्तस्य अन्नस्य पाचनं तु उदरमेव करोति। एतद् एव अस्मभ्यं शक्तिं ददाति। अस्य कृपया एव वयं जीवामः। अतः अस्माभिः सर्वैः अनेन सह सहयोगः करणीयः”। नूनं संहतिः एव कार्यसाधिका।

Question 1.
‘करिष्यामः’ इति क्रियापदस्य कर्तृपदं किम्?
(क) वयमपि
(ख) वयम्
(ग) कार्यम्
(घ) अद्यप्रभृति

Answer

Answer: (ख) वयम्


Question 2.
‘भुक्तस्य’ इति विशेषणस्य विशेष्यपदं किम्?
(क) अन्नस्य
(ख) कार्यस्य
(ग) अन्नकणस्य
(घ) सहयोगस्य

Answer

Answer: (क) अन्नस्य


Question 3.
‘चलौ’ इति पदस्य किं विपर्ययपदम् अत्र प्रयुक्तम्?
(क) हस्तौ
(ख) अचलौ
(ग) निश्चलौ
(घ) पादौ

Answer

Answer: (ग) निश्चलौ


Question 4.
अनुच्छेदे ‘सर्वाणि अङ्गानि’ इति कर्तृपदस्य क्रियापदं किम् अस्ति?
(क) अभवन्
(ख) शिथिलानि
(ग) अतिष्ठताम्
(घ) करोति

Answer

Answer: (क) अभवन्


Question 5.
शनैः शनैः सर्वाणि अङ्गानि कीदृशानि अभवन्?

Answer

Answer: शिथिलानि


Question 6.
कार्यसाधिका का भवति?

Answer

Answer: संहतिः


Question 7.
कानि मिलित्वा अचिन्तयन्?

Answer

Answer: इन्द्रियाणि


Question 8.
कानि अङ्गानि मिलित्वा कार्यं त्यक्तवन्तः?

Answer

Answer: शरीरस्य सर्वाणि इन्द्रियाणि-हस्तौ, पादौ, मुखं, नासिका, कौँ इत्यादीनि मिलित्वा कार्यं त्यक्तवन्तः।


Question 9.
कस्य कृपया अङ्गानि शक्तियुक्तानि भवन्ति?

Answer

Answer: उदरस्य कृपया अङ्गानि शक्तियुक्तानि भवन्ति।।


Question 10.
सर्वाणि इन्द्रियाणि मिलित्वा कि विचारम् अकुर्वन्?

Answer

Answer: मिलित्वा विचारम् अकुर्वन्-“अहो! अस्माकं प्रमादः। भुक्तस्य अन्नस्य पाचनं तु उदरमेव करोति। एतद् एव अस्मभ्यं शक्तिं ददाति। अस्य कृपया एव वयं जीवामः। अतः अस्माभिः सर्वैः अनेन सह सहयोगः करणीयः”।


Question 11.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।।

Answer

Answer: संहतिः एव कार्यसाधिका।


(8)

चीनदेशस्य प्रख्यातः दार्शनिकः ‘हू लाई’ प्रतिदिनं प्रातः पर्वते अभ्रमत्। मार्गे तस्य मित्रम् अमिलत् यः तं प्राणमत् परं स दार्शनिक: तस्य उत्तरम् अर्धहोराऽनन्तरमददात् यतः स विचारेषु मग्नः अभवत्। एकदा मित्रस्य एको बन्धुः तेन सह आसीत्। सः स्वभावत: दार्शनिकमनमत् अग्रे च गत्वा अवदत्। “अहो कीदृशं शोभनमस्ति प्रभातम्, कीदृशानि मनोमोहकानि सन्ति दृश्यानि अत्र।” दार्शनिक: स्वमित्रं तस्य बन्धुं च सक्रोधमपश्यत्। यथैव दिने दार्शनिकमित्रं तस्य गृहं प्राप्तः तु दार्शनिक: अकथयत्–’तव बन्धुः तु अधिकमेव वदति, पुनः एनं मम गृहे मा आनय। एषः सर्वान् दर्शयति एतानि सुन्दराणि दृश्यानि।’

Question 1.
‘दृश्यानि’ अस्य किं विशेषणम् अनुच्छेदे आगतम्?
(क) सुन्दराणि
(ख) एतानि
(ग) सुन्दरम्
(घ) एतत्

Answer

Answer: (क) सुन्दराणि


Question 2.
‘अवदत्’ अस्याः क्रियायाः कर्तृपदं किम्?
(क) स्वभावतः
(ख) दार्शनिकम्
(ग) अग्रे
(घ) सः

Answer

Answer: (घ) सः


Question 3.
अनुच्छेदे ‘असुन्दराणि’ अस्य विपर्ययपदं किम्?
(क) मनोमोहकानि
(ख) मोहकानि
(ग) सुन्दराणि
(घ) उत्तमानि

Answer

Answer: (ग) सुन्दराणि


Question 4.
अनुच्छेदे ‘दार्शनिकः’ इति कर्तृपदस्य क्रियापदं किम्?
(क) अकथयत्
(ख) आनय
(ग) अवदत्
(घ) अमिलत्

Answer

Answer: (क) अकथयत्।


Question 5.
कः पर्वते अभ्रमत्?

Answer

Answer: दार्शनिकः


Question 6.
दार्शनिक: स्वमित्रं कथमपश्यत्?

Answer

Answer: सक्रोधम्


Question 7.
मार्गे कः अमिल?

Answer

Answer: मित्रम्


Question 8.
गृहे प्राप्तं स्वमित्रं दार्शनिकः किम् अकथयत्?

Answer

Answer: गृहं प्राप्तं स्वमित्रं दार्शनिक: अकथयत् ‘तव बन्धुः तु अधिकमेव वदति, पुनः एनं मम गृहे मा आनय। एषः सर्वान् दर्शयति एतानि सुन्दराणि दृश्यानि’।


Question 9.
दार्शनिकस्य मित्रस्य बन्धुः अग्रे गत्वा किम् अवदत्?

Answer

Answer: दार्शनिकस्य मित्रस्य बन्धुः अग्रे गत्वा अवदत्-‘अहो कीदृशं शोभनमस्ति प्रभातम्, कीदृशानि मनोमोहकानि सन्ति दृश्यानि अत्र’।


Question 10.
कः प्रातः पर्वते अभ्रमत्?

Answer

Answer: चीनदेशस्य प्रख्यातः दार्शनिकः ‘हू लाई’ प्रतिदिनं प्रातः पर्वते अभ्रमत्।


Question 11.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।

Answer

Answer: दार्शनिकस्य चिन्तनम्।


(9)

एकस्य भिक्षुकस्य भिक्षापात्रे अञ्जलिपरिमिताः तण्डुलाः आसन्। सः अवदत्- “भगवन् ! दयां कुरु। कथम् अनेन उदरपूर्तिः भविष्यति।” तदैव अन्यः एक: अभिक्षुकः तत्र आगच्छति वदति च ‘भिक्षां देहि।’ क्रुद्धः प्रथमः भिक्षुकः अगर्जत्-‘रे भिक्षुक! भिक्षुकमेव भिक्षां याचसे। तव लज्जा नास्ति।” द्वितीयः भिक्षुकः उक्तवान्–“तव भिक्षापात्रे अञ्जलिपरिमिताः तण्डुलाः, मम तु पात्रं रिक्तम्। दयां कुरु।” अर्धं देहि। प्रथमः भिक्षुकः तत् न स्वीकृतवान्। द्वितीयः भिक्षुकः पुनः अवदत्- “भोः, कृपणः मा भव। केवलम् एकं तण्डुलं देहि।” प्रथमः भिक्षुकः तस्मै एकम् एव तण्डुलं ददाति। द्वितीये भिक्षुके गते सति प्रथमः भिक्षुकः भिक्षापात्रे तण्डुलाकारं स्वर्णकणं पश्यति। आश्चर्यचकितः शिरः ताडयन् सः पश्चात्तापम् अकरोत्-“धिक माम्। धिक् मम मूर्खताम्।”

Question 1.
‘क्रुद्धः’ इति कस्य विशेषणम्?
(क) प्रथमस्य भिक्षुकस्य
(ख) भिक्षुकस्य
(ग) प्रथमस्य
(घ) द्वितीयस्य भिक्षुकस्य

Answer

Answer: (ग) प्रथमस्य भिक्षुकस्य


Question 2.
प्रथम भिक्षुकः तस्मै एकं तण्डुलं ददाति। अत्र ‘तस्मै’ सर्वनामपदं कस्मै प्रयुक्तम्?
(क) एकम्
(ख) तस्मै
(ग) ददाति
(घ) भिक्षुकः

Answer

Answer: (ग) ददाति


Question 3.
‘स्वीकृतवान्’ इति क्रियापदस्य कर्तृपदम् किम्?
(क) भिक्षुकः
(ख) द्वितीयः भिक्षुकः
(ग) प्रथमः
(घ) प्रथमः भिक्षुकः

Answer

Answer: (घ) प्रथमः भिक्षुकः


Question 4.
अनुच्छेदे भरितम् (पूर्णम्) अस्य पदस्य कः विपर्ययः आगतः?
(क) अपूर्णम्
(ख) रिक्तम्
(ग) पात्रम्
(घ) मम

Answer

Answer: (ख) रिक्तम्


Question 5.
कस्य भिक्षुकस्य भिक्षापात्रं रिक्तम् आसीत्?

Answer

Answer: द्वितीयस्य


Question 6.
धिक् माम्’ इति कः वदति?

Answer

Answer: प्रथमभिक्षुकः


Question 7.
तदैव अन्यः कः तत्र आगच्छति?

Answer

Answer: भिक्षुकः


Question 8.
प्रथमः भिक्षुकः स्वभिक्षापात्रे किं पश्यति?

Answer

Answer: प्रथमः भिक्षुकः स्वभिक्षापात्रे तण्डुलाकारं स्वर्णकणं पश्यति।


Question 9.
द्वितीयः भिक्षुकः एकस्य तण्डुलस्य कृते किं ददाति?

Answer

Answer: द्वितीयः भिक्षुकः एकस्य तण्डुलस्य कृते तण्डुलाकारं स्वर्णकणं ददाति।


Question 10.
प्रथमः भिक्षुकः किं कथयित्वा पश्चात्तापमकरोत्?

Answer

Answer: आश्चर्यचकितः शिरः ताडयन् सः प्रथमः भिक्षुकः पश्चात्तापम् अकरोत्-“धिक माम्। धिक् मम मूर्खताम्।”


Question 11.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।

Answer

Answer: लोभः पापस्य कारणम्।


(10)

एकदा एकः कर्तव्यपरायणः नगररक्षकः इतस्ततः भ्रमन् एकम् अशीतिवर्षीयं महापुरुषम् अपश्यत्। सः आम्रवृक्षस्य आरोपणे तल्लीनः आसीत् । इदं दृष्ट्वा नगररक्षकः तं महापुरुषम् अवदत्-अवलोकनेन प्रतीयते यत् यदा एषः वृक्षः फलिष्यति तदा भवान् जीवितः न भविष्यति। अतः किमर्थं वृथा परिश्रमं कुर्वन्ति भवन्तः? महापुरुषः हसित्वा अवदत्-पश्यन्तु एतान् फलयुक्तान् वृक्षान्। एतेषाम् आरोपणं मया न कृतं परं फलानि अहं खादित्वा सन्तुष्टः भवामि। अतः यदा मम आरोपितस्य वृक्षस्य फलानि अन्ये खादिष्यन्ति, अहं पुनः प्रसन्नः भविष्यामि। महापुरुषस्य वचनं श्रुत्वा तं स नमस्कृत्य नगररक्षकः उक्तवान्-अनुकरणीया एव सज्जनानां सज्जनता।

Question 1.
‘नगररक्षकः’ इति पदस्य विशेषणपदं किम् अस्ति?
(क) एकदा
(ख) एकः
(ग) कर्तव्यपरायणः
(घ) परायणः

Answer

Answer: (ग) कर्तव्यपरायणः


Question 2.
‘दुर्जनानाम्’ इति पदस्य क: विपर्ययः?
(क) सज्जनानाम्
(ख) महापुरुषणाम्
(ग) जनानाम्
(घ) सज्जननाम्

Answer

Answer: (क) सज्जनानाम्


Question 3.
अस्मिन् गद्यांशे भविष्यामि’ इति क्रियापदस्य कर्तृपदं किम्?
(क) पुनः
(ख) प्रसन्नः
(ग) सन्तुष्टः
(घ) अहम् ङ्के

Answer

Answer: (घ) अहम्


Question 4.
अनुच्छेद दर्शनेम’ इति पदस्थ का पर्यायः लिखितः?
(क) प्रतीयते
(ख) अन्ये
(ग) अवलोकनेन
(घ) आरोपणे

Answer

Answer: (ग) अवलोकनेन


Question 5.
नगररक्षकः कीदृशं महापुरुषम् अपश्यत्?

Answer

Answer: अशीतिवर्षीयं


Question 6.
सज्जनानां सज्जनता कीदृशी भवति?

Answer

Answer: अनुकरणीया


Question 7.
कः हसित्वा अवदत्?

Answer

Answer: महापुरुषः


Question 8.
नगररक्षक: अशीतिवर्षीयं महापुरुषं कुत्र अपश्यत्?

Answer

Answer: नगररक्षक: अशीतिवर्षीयं महापुरुषं इतस्ततः भ्रमन् अपश्यत्।


Question 9.
महापुरुषेण आरोपितस्य वृक्षस्य फलानि के खादिष्यन्ति?

Answer

Answer: महापुरुषेण आरोपितस्य वृक्षस्य फलानि अन्ये खादिष्यन्ति।


Question 10.
महापुरुषस्य वचनं श्रुत्वा सः नगररक्षकः किम् उक्तवान्?

Answer

Answer: महापुरुषस्य वचनं श्रुत्वा तं नमस्कृत्य स:नगररक्षकः उक्तवान्–अनुकरणीया एव सज्जनानां सज्जनता।


Question 11.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।

Answer

Answer: ‘अनुकरणीया एव सज्जनानां सज्जनता’ अथवा ‘कर्त्तव्यपरायणता’।


(11)

एकस्मिन् वने एकः विशाल: वृक्षः आसीत्। तस्मिन् बहवः खगाः वसन्ति स्म। एकदा ते अतीव बुभुक्षिताः आसन्। अतः भोजनं खादितुम् इतस्ततः भ्रमन्ति स्म। ते दूर-दूरं गच्छन्ति स्म। अन्ते च एकस्मिन् क्षेत्रे तण्डुलकणान् अपश्यन्। ते तत्र गत्वा प्रसन्नतया तण्डुलान् खादन्ति स्म परन्तु जालेन बद्धाः अभवन्। ‘अधुना किं करणीयम्’ इति चिन्तयित्वा ते सर्वे जालेन सह एव एकं स्वमित्रम् उपागच्छन्। तेषां मित्रम् एकः मूषकः आसीत्। सः जालं दन्तैः अकर्तयत्। अन्ते सर्वे स्वतन्त्राः भूत्वा अनृत्यन् अगायन् च-सुखं तु एकतायाम् एव विद्यते।

Question 1.
अस्मिन् गद्यांशे ‘वृक्षः’ किं विशेषणपदं प्रयुक्तम्?
(क) वने
(ख) विशाल:
(ग) एकः
(घ) सः

Answer

Answer: (ख) विशालः


Question 2.
अस्मिन् गद्यांशे ‘खादन्ति स्म’ इति क्रियापदस्य कतृपदं किम्?
(क) ते
(ख) मूषकाः
(ग) बहवः
(घ) खगाः

Answer

Answer: (ख) खगाः


Question 3.
‘मुक्ताः ‘इति पदस्य अत्र किं विपर्ययपदं प्रयुक्तम्?
(क) स्वतन्त्रताः
(ख) बहवः
(ग) बुभुक्षिताः
(घ) बद्धाः

Answer

Answer: (घ) बद्धाः


Question 4.
अनुच्छेदे ‘ते सर्वे’ इति कर्तृपदस्य क्रियापदं किम्?
(क) स्वतन्त्रताः
(ख) वसन्ति स्म
(ग) आसन्
(घ) उपागच्छन्

Answer

Answer: (घ) उपागच्छन्


Question 5.
विशालवृक्षे के वसन्ति स्म?

Answer

Answer: खगाः


Question 6.
सुखं कुत्र विद्यते?

Answer

Answer: एकतायाम्


Question 7.
खगाः एकस्मिन् क्षेत्रे कान् अपश्यन्?

Answer

Answer: तण्डुलकणान्


Question 8.
खगाः भोजनाय कुत्र भ्रमन्ति स्म?

Answer

Answer: खगाः भोजनाय इतस्ततः भ्रमन्ति स्म।


Question 9.
मूषकः किम् अकरोत्?

Answer

Answer: मूषकः जालं दन्तैः अकर्तयत्।


Question 10.
अन्ते सर्वे किम् अगायन्?

Answer

Answer: अन्ते सर्वे स्वतन्त्राः भूत्वा अनृत्यन्-अगायन् च-सुखं तु एकतायाम् एव विद्यते।


Question 11.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।।

Answer

Answer: ‘एकतायाम् सुखम्’ अथवा खगाः मूषकः च “सुखं तु एकतायाम् एव विद्यते।”


(12)

एकदा राजकुमारः सिद्धार्थः विहाराय उद्यानं गतवान्। अकस्मात् सः क्रन्दनध्वनिम् अशृणोत्। तदैव च एक: हंसः तस्य सम्मुखे भूमौ अपतत्। तं दृष्ट्वा सिद्धार्थः करुणापूर्णः सञ्जातः। पुनश्च स हंसस्य शरीराद् बाणं निष्कास्य यावत्पश्यति तावद् देवदत्तः तत्र समागतः। स सिद्धार्थम् उक्तवान् “भो सिद्धार्थ! एषः हंसः मया हतः, अतः इमं हंसं मह्यं देहि।” सिद्धार्थः उच्चैः अवदत्-“न दास्यामि इमम् हंसम्, यतः अहम् अस्य रक्षकः” तौ परस्परम् विवदमानौ राजसभां गतवन्तौ। राजा सर्वम् उदन्तं श्रुत्वा आदिष्टवान्-‘यस्य समीपे हंस: गमिष्यति स तस्यैव भविष्यति। हंस: तु सानन्दम् सिद्धार्थमेव उपगतः।” उक्तम् हि रक्षकः भक्षकात् श्रेयान्।

Question 1.
अत्र ‘गमिष्यति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) समीपे
(ख) यस्य
(ग) हंसः
(घ) नृपः

Answer

Answer: (ग) हंसः


Question 2.
‘सहसा’ इति अव्ययस्य कः पर्यायः?
(क) अकस्मात्
(ख) सः
(ग) उच्चैः
(घ) यतः

Answer

Answer: (क) अकस्मात्


Question 3.
‘सिद्धार्थः करुणापूर्णः’ अनयोः पदयोः विशेषणं किम्?
(क) सिद्धार्थः
(ख) करुणापूर्णः
(ग) सिद्धार्थ
(घ) करुणा

Answer

Answer: (ख) करुणापूर्णः


Question 4.
अनुच्छेदे ‘परोक्षे’ इति पदस्य कः विपर्ययः?
(क) उच्चैः
(ख) अकस्मात्
(ग) सहसा
(घ) सम्मुखे

Answer

Answer: (घ) सम्मुखे


Question 5.
भूमौ कः पतितः आसीत्?

Answer

Answer: हंसः


Question 6.
क: उच्चैः अवदत्?

Answer

Answer: सिद्धार्थः


Question 7.
सिद्वार्थः विहाराय कुत्र गतवान्?

Answer

Answer: उद्यानम्


Question 8.
देवदत्तः किम् अवदत्?

Answer

Answer: देवदत्तः अवदत्-‘भो सिद्धार्थ ! एषः हंसः मया हतः, अतः इमं हंसं मह्यं देहि।”


Question 9.
राजा किम् आदिष्टवान्?

Answer

Answer: राजा आदिष्टवान्–“यस्य समीपे हंस: गमिष्यति स तस्यैव भविष्यति।”


Question 10.
संसारे किम् उक्तम्?

Answer

Answer: संसारे उक्तम् हि रक्षकः भक्षकात् श्रेयान्।


Question 11.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।

Answer

Answer: सिद्धार्थस्य दयालुता अथवा राजकुमारः सिद्धार्थः।


(13)

अस्माकं विद्यालयः राजकीयः विद्यालयः अस्ति। अत्र पठनस्य तु श्रेष्ठा व्यवस्था अस्ति एव, युगपदेव क्रीडानामपि सुलभा व्यवस्था अस्ति। अतएव अस्माकं विद्यालयस्य सर्वासां कक्षाणां परिणाम: शतप्रतिशतं भवति। क्रीडानां प्रतियोगितासु अपि अस्माकं विद्यालयस्य छात्राः बहुन् पुरस्कारान् अलभन्त। अस्माकं विद्यालयस्य वार्षिकोत्सवः परह्यः सम्पन्नो जातः। तदा अस्माकं राज्यस्य राज्यपाल: मुख्यातिथिः आसीत्। यदैव मुख्यातिथि: द्वारं सम्प्राप्तः छात्रा: वाद्ययन्त्राणां ध्वनिना तस्य स्वागतमाचरन्। ततः सः मञ्चस्य सम्मुखे आसनं भूषितवान्।

Question 1.
‘व्यवस्था’ इति पदस्य किं विशेषणम्?
(क) युगपत्
(ख) युगपदेव
(ग) श्रेष्ठा
(घ) क्रीडानाम्

Answer

Answer: (ग) श्रेष्ठा


Question 2.
‘जातः’ इत्यस्य विलोमपदं किम्?
(क) अस्ति
(ख) भवति
(ग) आसीत्
(घ) आचरन्

Answer

Answer: (ख) भवति


Question 3.
अस्मिन् गद्यांशे ‘आचरन्’ इति क्रियायाः कर्तृपदं किम्?
(क) मुख्यातिथि:
(ख) स्वागतम्
(ग) छात्राः
(घ) तस्य

Answer

Answer: (ग) छात्राः


Question 4.
अनुच्छेदे ‘छात्राः’ इति कर्तृपदस्य क्रियापदं किम्?
(क) अलभन्त
(ख) भूषितवान्
(ग) अस्ति
(घ) भवति

Answer

Answer: (क) अलभन्त


Question 5.
अस्माकं विद्यालयः कीदृशः अस्ति?

Answer

Answer: राजकीयः


Question 6.
परीक्षापरिणामः कीदृशः अस्ति?

Answer

Answer: शतप्रतिशतं


Question 7.
परह्यः विद्यालये कः सम्पन्न जातः?

Answer

Answer: वार्षिकोत्सवः


Question 8.
वार्षिकोत्सवे मुख्यातिथिः कः आसीत्?

Answer

Answer: वार्षिकोत्सवे राज्यस्य राज्यपाल: मुख्यातिथिः आसीत्।


Question 9.
मुख्यातिथौ आगते छात्राः किम् अकुर्वन्?

Answer

Answer: मुख्यातिथौ आगते छात्रा: वाद्ययन्त्राणां ध्वनिना तस्य स्वागतम् आचरन् (अकुर्वन्)।


Question 10.
अत्र पठनस्य कीदृशी व्यवस्था अस्ति?

Answer

Answer: अत्र पठनस्य तु श्रेष्ठा व्यवस्था अस्ति।


Question 11.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।

Answer

Answer: “अस्माकं विद्यालयः” अथवा “विद्यालयस्य वार्षिकोत्सवः


(14)

सत्सङ्गतेः महिमानं को न जानाति? संसारे सज्जनाः अपि दुर्जनाः अपि सन्ति। दुर्जनस्य संगतिं कोऽपि कर्तुं न इच्छति। अपरत्र सत्संगं विना मानवस्य जीवनम् एव दुर्जीवनं भवति। वस्तुतः सत्संगतिः जनानां पोषिका कुसंगतिश्च नाशिका। सर्वे जनाः स्वपोषमेव इच्छन्ति विनाशं तु न इच्छन्ति। अतः सत्संगतिः एव श्रेयसी। सज्जना: तु स्वगुणैः एव सन्तः कथ्यन्ते, अतएव जनाः सज्जनानां गुणेभ्यः स्पृह्यन्ति। सद्गुणेनैव जनः मनसा वाचा कर्मणा स्वस्थो भवति। तेन तस्य आयुः वर्धते, यशः अपि सततं वर्धते। को न जानाति यत् सर्वेषां देशानां महापुरुषाः अपि सत्संगत्या श्रेष्ठां पदवी प्राप्नुवन्। उक्तं हि भवभूतिना-‘सत्संगजानि निधनान्यपि तारयन्ति।’

Question 1.
‘कुसंगतिः’ पदस्य किं विपर्यय पदं गद्यांशे लिखितम्?
(क) सत्संगतेः
(ख) सत्संगतिः
(ग) सद्गुणेन
(घ) दुस्संगति

Answer

Answer: (ख) सत्संगतिः


Question 2.
‘जनाः गुणेभ्यः स्पृह्यन्ति’ अत्र कर्तृपदं किम्?
(क) जनाः
(ख) गुणः
(ग) गुणेभ्यः
(घ) स्पृह्यन्ति

Answer

Answer: (क) जनाः


Question 3.
‘श्रेष्ठां पदवीम्’ अनयोः विशेषणं किम्?
(क) पदवी
(ख) पदवीं
(ग) श्रेष्ठा
(घ) श्रेष्ठाम्

Answer

Answer: (घ) श्रेष्ठाम्


Question 4.
अनुच्छेद ‘दुष्टाः’ इति पदस्य कः पर्यायः वर्तते?
(क) दुर्जनाः
(ख) दुर्जीवनम्
(ग) सज्जनाः
(घ) कर्मणा

Answer

Answer: (क) दुर्जनाः


Question 5.
सत्संगतिं विना जीवनं किं भवति?

Answer

Answer: दुर्जीवनम्


Question 6.
कुसंगतिः कीदृशी?

Answer

Answer: नाशिका


Question 7.
कस्याः महिमानं को न जानाति?

Answer

Answer: सत्संगते:


Question 8.
संसारे कीदृशाः जनाः सन्ति?

Answer

Answer: संसारे सज्जनाः दुर्जनाश्च जनाः सन्ति।


Question 9.
भवभूतिना किम् उक्तम्?

Answer

Answer: भवभूतिना उक्तम्- “सत्संगजानि निधनान्यपि तारयन्ति।”


Question 10.
सर्वे जनाः किम् इच्छन्ति किं वा न?

Answer

Answer: सर्वे जनाः स्वपोषमेव इच्छन्ति विनाशं तु न इच्छन्ति।


Question 11.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।

Answer

Answer: सत्सङ्गतिः।


(15)

रात्रिः गमिष्यति भविष्यति सुप्रभातं,
भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः।
इत्थं विचारति कोशगते द्विरेफे,
हा-हन्त-हन्त! नलिनी गज उज्जहार॥

Question 1.
श्लोके ‘कमलम्’ इत्यस्य पदस्य कः पर्यायः प्रयुक्तः?
(क) पङ्कजश्रीः
(ख) सुप्रभातम्
(ग) नलिनी
(घ) नलिनीम्

Answer

Answer: (घ) नलिनीम्


Question 2.
‘हा- हन्त हन्त! नलिनी गज उज्जहार।’ अत्र क्रियापदं किम्?
(क) नलिनी
(ख) उज्जहार
(ग) गजः
(घ) हा-हन्त-हन्त!

Answer

Answer: (ख) उज्जहार


Question 3.
प्रभाते का हसिष्यति?

Answer

Answer: पङ्कजश्रीः


Question 4.
द्विरेफानुसारं का गमिष्यति?

Answer

Answer: रात्रिः


Question 5.
कोशगते द्विरेफे इदं विचारति किम् अभवत्?

Answer

Answer: कोशगते द्विरेफे इदं विचारति नलिनी गजः उज्जहार।


(16)

ओंकारं बिन्दु संयुक्तं, नित्यं ध्यायन्ति योगिनः।
कामदं मोक्षदं चैव, ओंकाराय नमो-नमः॥

Question 1.
‘ओंकारं बिन्दु संयुक्तम्’ अनयोः पदयोः विशेषणं किमस्ति?
(क) बिन्दुः
(ख) संयुक्तम्
(ग) बिन्दुसंयुक्तम्
(घ) ओंकारम्

Answer

Answer: (ग) बिन्दुसंयुक्तम्


Question 2.
श्लोके ‘ध्यायन्ति’ इत्यस्य क्रियापदस्य कर्तृपदं किमस्ति?
(क) योगिनः
(ख) कामदं
(ग) नित्यं
(घ) ओंकारम्

Answer

Answer: (क) योगिनः


Question 3.
कस्मै नमो-नमः भवेत्?

Answer

Answer: ओंकाराय


Question 4.
योगिनः कीदृशम् ओंकारं ध्यायन्ति?

Answer

Answer: कामदम्


Question 5.
ओंकारं किं-किं ददाति?

Answer

Answer: ओंकारं कामं मोक्षं च ददाति।


(17)

सुखार्थिने कुतो विद्या कुतो विद्यार्थिने सुखम्।
सुखार्थी वा त्यजेत् विद्यां विद्यार्थी वा त्यजेत् सुखम्॥

Question 1.
श्लोके ‘छात्राय’ पदस्य कः पर्यायः प्रयुक्तः?
(क) विद्यार्थिने
(ख) विद्यार्थि
(ग) सुखार्थि
(घ) सुखार्थिने

Answer

Answer: (क) विद्यार्थिने


Question 2.
सुखार्थी वा त्यजेत् विद्याम्।’ अत्र क्रियापदं किमस्ति?
(क) सुखार्थी
(ख) वा
(ग) त्यजेत्
(घ) विद्याम्

Answer

Answer: (ग) त्यजेत्


Question 3.
कस्मै सुखं न प्राप्नोति?

Answer

Answer: विद्यार्थिने


Question 4.
विद्यार्थी किं त्यजे?

Answer

Answer: सुखम्


Question 5.
सुखार्थिने किं न प्राप्नोति?

Answer

Answer: सुखार्थिने विद्या न प्राप्नोति।


(18)

तृणानि भूमिरुदकं चतुर्थी वाक् च सुनृता।
एतान्यपि सतां गेहेषु नोच्छिद्यन्ते कदाचन।

Question 1.
श्लोके ‘वाणी’ इत्यस्य पदस्य कः पर्यायः प्रयुक्तः?
(क) भूमिः
(ख) वाक्
(ग) उदकम्
(घ) तृणानि

Answer

Answer: (ख) वाक्


Question 2.
‘दुर्जनानाम्’ इति पदस्य श्लोके कः विपर्ययः आगतोऽस्ति?
(क) कदाचन
(ख) सतानाम्
(ग) एतान्यपि
(घ) सताम्

Answer

Answer: (घ) सताम्


Question 3.
श्लोके सुनृता का कथिता अस्ति?

Answer

Answer: वाक्


Question 4.
प्रथमं किं वस्तु श्लोके कथितम्?

Answer

Answer: तृणानि


Question 5.
कानि सतां गेहेषु कदाचन न उच्छिद्यन्ते?

Answer

Answer: तृणानि भूमिरुदकं चतुर्थी च सुनृता वाक् एतानि सतां गेहेषु कदाचन न उच्छिद्यन्ते।


(19)

गौरवं प्राप्यते दानात् न तु वित्तस्य सञ्चयात्।
स्थितिः उच्चैः पयोदानां पयोधीनाम् अधः स्थितिः॥

Question 1.
श्लोके ‘गौरवम्’ इति कर्तृपदस्य क्रियापदं किम्?
(क) प्राप्यते
(ख) दानात्
(ग) न तु
(घ) वित्तस्य

Answer

Answer: (क) प्राप्यते


Question 2.
‘बद्दलानाम्’ इत्यस्य पदस्य कः पर्यायः श्लोके लिखितः?
(क) पयोधीनाम्
(ख) स्थितिः
(ग) पयोदानाम्
(घ) उच्चैः

Answer

Answer: (ग) पयोदानाम्


Question 3.
दानात् किं प्राप्यते?

Answer

Answer: गौरवम्


Question 4.
पयोधीनां स्थितिः कुत्र भवति?

Answer

Answer: अधः।


Question 5.
केषां स्थितिः उच्चैः भवति?

Answer

Answer: पयोदानां स्थितिः उच्चैः भवति।


(20)

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग् भवेत्॥

Question 1.
‘मा कश्चिद् दु:खभाग् भवेत्। अत्र वाक्ये क्रियापदं किम्?
(क) भवेत्
(ख) मा
(ग) कश्चिद्
(घ) दुःखभाग्

Answer

Answer: (क) भवेत्


Question 2.
‘सर्वे निरामयाः’ अनयोः पदयोः विशेषणपदं किमस्ति?
(क) सर्वः
(ख) सर्वे
(ग) निरामयः
(घ) निरामयाः

Answer

Answer: (घ) निरामयाः


Question 3.
के निरामयाः सन्तु?

Answer

Answer: सर्वे


Question 4.
कश्चित् किं मा भवेत्?

Answer

Answer: दुःखभाग्


Question 5.
सर्वे कीदृशाः भवन्तु?

Answer

Answer: सर्वे सुखिनः भवन्तु।।


(21)

सर्वस्य हि परीक्ष्यन्ते स्वभावाः नेतरे गुणाः।
अतीत्य हि गुणान् सर्वान् स्वभावो मूर्ध्नि वर्तते॥

Question 1.
‘गुणान् सर्वान्’ अनयोः पदयोः विशेष्यः कः?
(क) गुणान्
(ख) गुणाः
(ग) सर्वान्
(घ) सर्वः

Answer

Answer: (क) गुणान्


Question 2.
‘अतीत्य हि गुणान् सर्वान् स्वभावो मूनि वर्तते।’ अस्मिन् वाक्ये क्रियापदं किम् अस्ति?
(क) अतीत्य
(ख) स्वभावो
(ग) वर्तते
(घ) मूर्ध्नि

Answer

Answer: (ग) वर्तते


Question 3.
सर्वस्य के परीक्ष्यन्ते?

Answer

Answer: स्वभावाः


Question 4.
कस्य इतरे गुणाः न परीक्ष्यन्ते?

Answer

Answer: सर्वस्य


Question 5.
गुणान् सर्वान् अतीत्य कः मूर्ध्नि वर्तते?

Answer

Answer: गुणान् सर्वान् अतीत्य स्वभावो मूर्ध्निः वर्तते।


(22)

अभिवादनशीलस्य नित्यं वृद्धोपसेविनः।
चत्वारि तस्य वर्धन्ते आयुर्विद्यायशोबलम्॥

Question 1.
श्लोके ‘तस्य’ सर्वनाम पदं कस्मै प्रयुक्तम्?
(क) जीवाय
(ख) जनाय
(ग) अभिवादनशीलाय
(घ) गुणाय

Answer

Answer: (ग) अभिवादनशीलाय


Question 2.
‘चत्वारि तस्य वर्धन्ते।’ अत्र क्रियापदं किम्?
(क) चत्वारि
(ख) तस्य
(ग) वर्धन्ते
(घ) वर्धन्ति

Answer

Answer: (ग) वर्धन्ते


Question 3.
अभिवादनशीलस्य कति गुणाः वर्धन्ते?

Answer

Answer: चत्वारः


Question 4.
अत्र प्रथमः गुणः कः कथितः?

Answer

Answer: आयुः


Question 5.
कस्य आयुर्विद्यायशोबलं वर्धन्ते?

Answer

Answer: अभिवादनशीलस्य नित्यं वृद्धोपसेविन: आयुर्विद्यायशोबलं वर्धन्ते।


We think the shed NCERT MCQ Questions for Class 10 Sanskrit Grammar अपठित-अवबोधनम् with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 10 Sanskrit अपठित-अवबोधनम् MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

error: Content is protected !!