CBSE Sample Papers for Class 10 Sanskrit Paper 2 are part of CBSE Sample Papers for Class 10 Sanskrit. Here we have given CBSE Sample Papers for Class 10 Sanskrit Paper 2.
CBSE Sample Papers for Class 10 Sanskrit Paper 2
Board | CBSE |
Class | X |
Subject | Sanskrit |
Sample Paper Set | Paper 2 |
Category | CBSE Sample Papers |
Students who are going to appear for CBSE Class 10 Examinations are advised to practice the CBSE sample papers given here which is designed as per the latest Syllabus and marking scheme as prescribed by the CBSE is given here. Paper 2 of Solved CBSE Sample Paper for Class 10 Sanskrit is given below with free PDF download solutions.
समय: होरात्रयम्
पूर्णाङ्काः 80
निदेशाः
- प्रश्नपत्रं चत्वारः खण्डाः सन्ति
- खण्ड: (क) अपठित-अवबोधनम् 10 अङ्कः
- खण्ड: (ख) रचनात्मकं-कार्यम् 15 अङ्काः
- खण्ड: (ग) अनुप्रयुक्तव्याकरणम् 25 अङ्काः
- खण्डः (घ) पठित-अवबोधनम् 30 अङ्काः
- सर्वे प्रश्नाः अनिवार्याः।
- प्रश्नानाम् उत्तराणि खण्डानुसारं क्रमेणैव लेखनीयानि।
- प्रश्नसंख्या अवश्यमेव लेखनीया।
- उत्तराणि संस्कृतेनैव लेखनीयानि।
खण्डः ‘क’-अपठित-अवबोधनम्
प्रश्न 1:
अधोलिखितम् अनुच्छेदंयं पठित्वा तदाधारितान् प्रश्नान् उत्तरपुस्तिकायाम् उत्तरत – (10)
अधुना तु गृहे-गृहे सङ्गणकं विद्यते। मार्गे-मार्गे सङ्गणकशिक्षणकेन्द्राणि विराजन्ते। किम् अधिककथनेन, प्राथमिक विद्यालयापेक्षया सङ्गणकशिक्षणकेन्द्राणि एव अधिकानि दृश्यन्ते। सङ्गणकयन्त्रेण विना अद्य वैज्ञानिकलोकः अन्धः एव। मनुष्येण कर्तुम् अशक्यानि अनेकानि कार्याणि अनेन सुखेन सम्पाद्यन्ते। कष्टसाध्यानि अपि गणनकार्याणि एतत् अत्यन्तं सुखेन निष्कृष्टतया अतिवेगेन च करोति। लक्षसंख्याकानि अपि गणनकर्माणि क्षणाभ्यन्तरे कर्तुं समर्थम् इदं यन्त्रम्। सङ्गणकस्य स्मरणशक्तिः अपि असाधारणी एव। असंख्यानां विषयानां संग्रहणं कृत्वा तान् अगणितकालपर्यन्तं स्वोदरे रक्षितुमपि समर्थं तत् यन्त्रम्। यदा वयं इच्छामः तदा तान् विषयान् तस्य स्मरणकोषम् उद्घाट्य ततः स्वीकृत्य द्रष्टुं शक्नुमः। तत् तु अनलसं, निष्कृष्टम् अविरतं च कर्म करोति। इदानीं तादृशी स्थितिः आगता दृश्यते यत् यदि कश्चन सङ्गणकंप्रवर्तनं न जानाति तर्हि सः निरक्षरः अज्ञानी इति वा परिगण्यते आधुनिकैः जनैः।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) केन विना वैज्ञानिकलोकः अन्धः एव ?
(ii) सङ्गणकस्य का असाधारणी?
(II) पूर्णवाक्येन उत्तरत – (2 × 2 = 4)
(i) आधुनिकजनैः कः निरक्षरः अज्ञानी वा परिगण्यते ?
(ii) सङ्गणकं कथं कर्म करोति ?
(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
(i) अत्र ‘शक्नुमः’ इति क्रियापदस्य कर्तृपदं किम् ?
(क) वयम्
(ख) मनुष्येन
(ग) जनैः
(घ) संगणकम्
(ii) ‘अशक्यानि’ इति विशेषणपदस्य विशेष्यपदं किम् ?
(क) अनेकानि
(ख) कार्याणि
(ग) कष्टसाध्यानि
(घ) अधिकानि
(iii) ‘तस्य’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
(क) मनुष्याय
(ख) स्मरणकोषाय
(ग) संगणकाय
(घ) जनाय
(iv) ‘मन्यते’ इत्यर्थे किम् क्रियापदं अत्र प्रयुक्तम् ?
(क) परिगण्यते
(ख) सम्पाद्यन्ते
(ग) जानाति
(घ) विद्यते
(IV) अस्य गद्यांशस्य उचितं शीर्षकं लिखत।
खण्डः ‘ख’- रचनात्मक कार्यम्
प्रश्न 2:
स्वविद्यालयस्य वर्णनम् कुर्वन् मित्रं प्रति लिखितम् इदं पत्रं मञ्जूषायां दत्तैः उचितपदैः पूरयित्वा पुनः लिखत – (5)
केन्द्रियः विद्यालयः
पञ्चकूलातः।
तिथिः …………
प्रिय (1) ………..!
सस्नेहं (2) ………..!
अत्र (3) ……….. तत्रास्तु। अहम् अधुना स्वविद्यालयस्य वर्णनं कर्तुम् इच्छामि। मम (4) ………….. अतीव शोभनः अस्ति। अस्माकम् सर्वे (5) ……… दत्तचित्तेन पाठयन्ति। तेषां योग्यता वस्तुतः (6) …………. सर्वे छात्राः अपि (7) ………… सन्ति।
(8) ………… पुनः (9) …………।
भवतः (10)……………..
दिनेशः।
मञ्जूषा – राकेश, योग्याः, नमस्ते, अध्यापकाः, कुशलं, विद्यालयः, प्रशंसनीया, मित्रम्, लेखिष्यामि, विस्तरेण
प्रश्न 3:
चित्रम् आधृत्य मञ्जूषायां प्रदत्तशब्दानां सहायतया संस्कृते पञ्चवाक्यानि लिखत – (10)
मञ्जूषा
वटवृक्षः, पिकः, काकः, सरोवरः, मयूरः, पुष्पाणि, उल्लूकः, कोटरः, कोकिलः, वर्तकः।
अथवा
‘वृक्षाणाम् उपयोगिता’ इति विषयम् अधिकृत्य पञ्चवाक्यानि लिखत।
मजूषा- वायुमण्डलम्, जीवनस्य, वातावरणं, धन्याः, परोपकाराय, ऑक्सीजन वायु, सन्तुषितम्, शोधयति।
खण्डः’ग’-अनुप्रयुक्तव्याकरणम्
प्रश्न 4:
अधोलिखितेषु वाक्येषु स्थूलपदेषु सन्धिच्छेदम् अथवा सन्धिं कृत्वा उत्तरपुस्तिकायाम् लिखत – (4)
- यः सर्वदा कल्याणं इच्छति, कः तच्छत्रुः ?
- गुरुर्देवो महेश्वरः।
- ब्रह्मास्त्रं पौ + अकः इव दहति।
- एषः + बालकः गृहकार्यं करोति।
प्रश्न 5:
निम्नलिखितेषु वाक्येषु स्थूलाक्षरपदेषु समासं अथवा विग्रहं कृत्वा उत्तरपुस्तिकायाम् लिखत – (4)
- माता कृष्णस्य मुखकमलम् पश्यति।
- सः भासविरचितं नाटकं पठति।
- त्वं शक्तिम् अनतिक्रम्य सेवां कुरु।
- नीलं कण्ठं यस्य सः (तस्य) देवालयः अत्र अस्ति।
प्रश्न 6:
अधोलिखितेषु वाक्येषु स्थूलपदानां प्रकृतिः प्रत्ययः” च पृथक्-पृथक् कृत्वा अथवा संयोज्य पुनः लिख्यताम् – (5)
- हस् + शतृ छात्राः क्रीडन्ति।
- सर्वे भवन्तु सुखिनः।
- एषा तरुणी सद्गुणैः सम्पन्ना।
- सः (ज्ञान + वतुप्) अस्ति ।
प्रश्न 7:
(अ) मञ्जूषायाम् दत्तैः अव्ययपदैः अधोलिखितम् अनुच्छेदं पूरयित्वा पुनः लिखत – (2)
कदापि, विना, नूनं, अपि
आशावादी धैर्यं न त्यजति। आशया मानवाः कष्टानि ……….. सहन्ते। आशां ………. न अस्ति जीवनम्। आशा बलवती ……….।
(ब) उचितेन अव्ययपदेन रिक्तस्थानानि पूरयित्वा पुनः लिखत –
- यत्र छात्राः …………….. विद्यालयः।
- ………. बीजं तथा फलम्।
- यदा मेघाः गर्जन्ति ……….. मयूरः नृत्यति।
- ……… वर्षा भवति तावत् हरीतिमा अस्ति।
प्रश्न 8:
वाच्यं अधिकृत्य द्वयोः मित्रयोः अधोलिखितं संवादं पूरयित्वा पुनः लिखत –
रविः – किम् अद्य ……… समाचार-पत्रं पठितम् ?
भरतः – आम्! अधुना एवं पठितम् ………..। यत् नगरे सर्वत्र उपद्रवाः सन्ति।
रविः – अतः ……….. विद्यालयं न गमिष्यामः
प्रश्न 9:
घटिकां दृष्ट्वा स्वदिनचर्या लिखत
- अहं (8.45) …………. विद्यालये क्रीडामि।
- अहं (4.15) ……….. दुग्धं पिबामि।
प्रश्न 10:
अशुद्धिशोधनम् –
मानवानाम् मने अनेके मनोरथाः सन्ति । तासाम् मनोरथानाम् कः अपि अन्तः न अस्ति । मानवाः न जानाति यत् मनोरथानाम् न अस्ति कः अपि सीमा।
खण्डः ‘घ’-पठित-अवबोधनम्।
प्रश्न 11:
(अ) अधोलिखितं गद्यांशं पठित्वा प्रश्नान् उत्तरत – (6)
राजा उवाच- भगवन्! भवन्मनोरथं पूरयित्वा आत्मानम् अनुगृहीतं कर्तुम् इच्छामि। आदिश्यताम्, किं करवाणि? विप्रः उवाच-यदि भवान् प्रीतः, तदा त्वत्तः एकस्य चक्षुषः दानम् इच्छामि। येन मम लोकयात्रा निर्बाधा भवेत्। तत् श्रुत्वा राजा अचिन्तयत्-‘लोके चक्षुर्दानं दुष्करमेव । नूनम् ईदृशं दानम् इच्छन् अयं याचकः केनापि प्रेरितः स्यात् ।’
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) लोके किम् दुष्करमेव ?
(ii) कः केनापि प्रेरितः स्यात् ?
(II) पूर्णवाक्येन उत्तरत – (2 × 1 = 2)
याचनां श्रुत्वा राजा किम् अचिन्तयत् ?
(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
(i) ‘भवान्’ पदं कस्मै प्रयुक्तम् ?
(क) राज्ञे
(ख) नेत्राय
(ग) विप्राय
(ii) ‘इच्छामि’ क्रियापदस्य कर्तृपदं किम् ?
(क) राजा
(ख) अहम्
(ग) विप्रः
(iii) ‘लोकयात्रा’ इति विशेष्यपदस्य विशेषणपदं किम्?
(क) निर्बाधा
(ख) येन
(ग) मम
(iv) प्रसन्नः’ इत्यर्थे किम् पदम् अत्र अस्ति?
(क) प्रेरितः
(ख) प्रीतः
(ग) प्रेषितः
(आ) अधोलिखितं नाट्यांशं पठित्वा प्रश्नान् उत्तरत – (6)
काकः – (विहस्य) कुक्कुटः। अरे अद्य कुतः कुक्कुटा: नगरेषु। अहमेव सर्वत्र सुलभः
राजहंसी – भो-भो वाचाल! स्वीयै कटुभिः क्वणितै जनजागरणात् अन्यत् तु किमपि न करोषि।
काकः – अहो अज्ञानं भवत्याः। यस्य गृहस्य भित्तौ स्थित्वा आलपामि, जनाः प्रियस्य आगमन-संकेतं मत्वा हृष्यन्ति। अस्माकं एक्यं तु जगत्प्रसिद्धम्। मातरः शिशून् प्रायः कथयन्ति, ‘अनृतं वदसि चेत् काकः दशेत्।’
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) राजहंसी काकं किं सम्बोधयति ?
(ii) अद्य नगरेषु के न दृश्यन्ते ?
(II) पूर्णवाक्येन उत्तरत – (2 × 1 = 2)
मातरः काकविषये शिशून् किं कथयन्ति ?
(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
(i) ”कटुभिः क्वणितैः” अत्र किं विशेष्यपदम् ?
(ii) ‘अहो अज्ञानं भवत्याः’ अत्र ‘भवत्याः’ इति सर्वनामपदं कस्यै प्रयुक्तम् ?
(iii) ‘सत्यम्’ अस्य विलोमपदं नाट्यांशात् चित्वा लिखत।
(iv) ‘बालान्’ अस्य किम् पर्यायवाचिपदं नाट्यांशे प्रयुक्तम् ?
(इ) अधोलिखितश्लोकं पठित्वा प्रश्नान् उत्तरत –
किं जीवितम् ? अनवद्यम् किं जाड्यम् ? पठतोऽप्यनभ्यासः।
को जागर्ति? विवेकी, का निद्रा? मूढता जन्तोः॥
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) पठतोऽप्यनभ्यासः किम् ?
(ii) को जागर्ति?
(II) पूर्णवाक्येन उत्तरत – (2 × 1 = 2)
निद्रा का कथ्यते ?
(III) निर्देशानुसारम् उत्तरत – (4 × 4 = 2)
(i) ‘जागर्ति’ इति क्रियापदस्य कर्तृपदं अत्र किम् ?
(ii) अत्र ‘जीवस्य’ इत्यर्थे किं पदम् प्रयुक्तम् ?
(iii) ‘अभ्यासः’ इति पदस्य कः विपर्ययः अत्र प्रयुक्तम् ?
(iv) ‘का’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
प्रश्न 12:
अधोलिखितस्य श्लोकयोः अन्वयं उचितपदक्रमेण पूरयित्वा लिखत –
(अ) पापिनाञ्च सदा दुःखं, सुखं वै पुण्यकर्मणाम्।
एवं स्थिरतरं ज्ञात्वा साधुवृत्तिं समाचरेत्॥
अन्वयः- (i) ……… च सदा दुःखम् (ii) ……….. वै सुखम्, एवं (ii) ………….. ज्ञात्वा (iv) ………. समाचरेत्।
(ब) यः सप्तराज्येषु विभासमानः
तरङ्गिणी यत्र च लोहिताख्या।
ईटा’ हि यस्यास्ति पुरी प्रधाना
सुस्वागतं भो ! अरुणाचलेऽस्मिन्॥
अन्वयः- यः (i) …………….. विभासमानः यत्र च (ii) ………….. तरङ्गिणी। यस्य ‘ईटा’ पुरी हि (iii) ………… अस्मिन् (iv) ………. भो! सुस्वागतम्॥
मञ्जूषा – स्थिरतरं, पापिनाम्, प्रधाना, अरुणाचले, साधुवृत्तिं, पुण्यकर्मणाम्, सप्तराज्येषु, लोहिताख्या।
प्रश्न 13:
अधोलिखितकथनेषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं क्रियताम् – (4)
(i) पूर्वस्याम् दिशि सूर्यः उदेति।
(ii) सर्वथा जागरुकोऽहं छात्राणाम् कृते आदर्शः।
(iii) राजगृहे बालवाहनयोग्यं मेषयूथम् आसीत्।
(iv) अमात्याः विषण्णाः भूत्वा अवदन्।
प्रश्न 14:
उदाहरणं अनुसृत्य स्थूलाक्षरपदानाम् प्रसङ्गानुसारम् शुद्धम् अर्थम् चित्वा लिखत – (4)
I. अहर्निशं महानसम् प्रविश्य ………….|
(i) महान्तम् आसनम्
(ii) पाकशालाम्
(iii) महानगरम्
II. सर्वान् कपीन् आहूय रहसि अवदत्।
(i) रजनी
(ii) एकान्ते
(iii) उषाकाले
III. त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत।
(i) कोमलाम्
(ii) कठोराम्
(iii) परेषाम्
IV. मेध्यम् अमेध्यं सर्वमेव भक्षयति।
(i) अशुद्धम्
(ii) विशुद्धम्
(iii) अस्वच्छम्
उत्तराणि
खण्डः ‘क’- अपठित-अवबोधनम्
उत्तर 1:
I. (i) सङ्गणकयन्त्रेण
(ii) स्मरणशक्तिः
II. (i) आधुनिकजनैः यदि कश्चन सङ्गणकप्रर्वतनं न जानाति तर्हि सः निरक्षरः अज्ञानी वा परिगण्यते।
(ii) संङ्गणकं तु अनलसं, निकृष्टं अविरतं च कर्म करोति।
III. (i) (क) वयम्
(ii) (ख) कार्याणि
(iii) (ग) संगणकाय
(iv) (क) परिगण्यते
IV. सङ्गणकयुगम्; सङ्गणकयन्त्रस्य लाभाः वा।
खण्ड: ‘ख’- रचनात्मक कार्यम्
उत्तर 2:
- राकेश
- नमस्ते
- कुशलम्
- विद्यालयः
- अध्यापकाः
- प्रशंसनीया
- योग्याः
- विस्तरेण
- लेखिष्यामि
- मित्रम्
उत्तर 3:
- अस्मिन् चित्रे एकः विशालः वटवृक्षः अस्ति।
- सरोवरे स्वच्छं जलम् अस्ति।
- सरोवरे हंसः तरति।
- सरोवरस्य तटे बहूनि मनोहराणि पुष्पाणि सन्ति।
- वटवृक्षे मयूरः, पिकः काकः च सन्ति।
- एकस्याम् शाखायाम् उल्लूकः अपि तिष्ठति।
अथवा
‘वृक्षाणाम् उपयोगिता
- वृक्षाः वायुमण्डलं शोधयन्ति।
- ते वातावरण सन्तुलितं कुर्वन्ति।
- वृक्षेभ्यः एव वयम् ऑक्सीजन-वायु गृहणीम्:।
- जीवनस्य सर्वाणि उपयोगीनि वस्तूनि वृक्षेभ्यः एव प्राप्यते।
- धन्याः वृक्षाः यतः ते परोपकाराय फलन्ति।
खण्डः ‘ग’-अनुप्रयुक्तव्याकरणम्
उत्तर 4:
- तत् + शत्रुः
- गुरुः + देवः
- पावकम्
- एष बालकः
उत्तर 5:
- मुखं कमलं इव
- भासेन विरचितम्
- यथाशक्ति
- नीलकंठस्य
उत्तर 6:
- हसन्तः
- सुख + इन्
- तरुण + ङीप्
- ज्ञानवान्
उत्तर 7:
(अ) कदापि; अपि; विना; नूनम्
(ब) तत्र; यथा; तदा; यावत्
उत्तर 8:
- त्वया
- मया
- वयम्
उत्तर 9:
- पादोननववादने
- सपादचतुर्वादने
उत्तर 10:
- मनसि
- तेषाम्
- जानन्ति
- का
खण्डः ‘घ’-पठित-अवबोधनम्
उत्तर 11:
(अ) I. (i) चक्षुर्दानम्
(ii) याचकः
II. याचनां श्रुत्वा राजा अचिन्तयत्-‘लोके चक्षुर्दानम् दुष्करमेव। नूनम् ईदृशं दानं इच्छन् अयं याचकः केनापि प्रेरितः स्यात् ।”
III. (i) (क) राज्ञे
(ii) (ख) अहम्
(iii) (क) निर्बाधा
(iv) (ख) प्रीतः
(आ) I. (i) वाचाल
(ii) कुक्कुटाः
II. मातरः शिशून् प्रायः कथयन्ति – “अनृतं वदसि चेत् काकः दशेत् ।”
III. (i) क्वणितैः
(ii) राजहंसये
(iii) अनृतं
(iv) शिशून्
(इ) I. (i) जाड्यम्
(ii) विवेकी
II. जन्तोः मूढता निद्रा कथ्यते।।
III. (i) विवेकी
(ii) जन्तोः
(iii) अनभ्यासः
(iv) निद्रा
उत्तर 12:
(अ) (i) पापिनाम्
(ii) पुण्यकर्मणाम्
(iii) स्थिरतरं
(iv) साधुवृत्तिं
(ब) (i) सप्तराज्येषु
(ii) लोहिताख्या
(iii) प्रधाना
(iv) अरुणाचले
उत्तर 13:
- कस्याम् ?
- केषाम् ?
- कीदृशम् ?
- के ?
उत्तर 14:
I. (ii) पाकशालाम्
II. (ii) एकान्ते
III. (ii) कठोराम्
IV. (ii) विशुद्धम्
We hope the CBSE Sample Papers for Class 10 Sanskrit Paper 2 help you. If you have any query regarding CBSE Sample Papers for Class 10 Sanskrit Paper 2, drop a comment below and we will get back to you at the earliest.